________________ 157 289] द्वितीयो गुल्मकाण्डः। रक्तपाद्यपरा प्रोक्ता विषग्रन्थिस्त्रिपाद्यपि / हंसपादी हंसपदी घृतमण्डलकश्च सा // [धन्व० वर्ग 4 श्लो० 111] इति / एतस्या लोके 'हंसपदी' इति प्रसिद्धिः // 287 // मत्स्यादनी मत्स्यगन्धा लागली तोयपिप्पली // 28 // जलस्य पिप्पली जलपिप्पली, तस्याम् / शरदि-ऋतुविशेष भवा शारदी, "भर्तु-सन्ध्यादेरण्" [सिद्ध 0 6. 3.89] इत्यण् , “अणजेये-" [सिद्ध 0 2.4.20] इति ङीः / शकुलादनी, मत्स्यभक्षणात् / अत एव मत्स्यादनी / मत्स्यस्येव गन्धोऽस्या मत्स्यगन्धा / लागली हलाकारत्वात् / तोयस्य पिप्पली तोयपिप्पली / अम्बु- 10 पिप्पल्यपि / आह च जलपिप्पल्यभिहिता शारदी तोयपिप्पली / मत्स्यादनी मत्स्यगन्धा लाङ्गली शकुलादनी। [धन्व० वर्ग 4 श्लो० 64 ] इति / एतस्या लोके 'जलपिंपली' इति प्रसिद्धिः // 288 // शिवमल्ल्यां पाशुपतः सुव्रतो वसुको बुकः / कुलपुष्पः किण्वमूलः पाण्डुराङ्गः प्रियः कुलः // 289 / / शिवप्रिया मल्ली शिवमल्ली / उक्तं च बुकं बिल्वं सधुत्तूरं सुमना पाटला तथा / पद्ममुत्पल-गोसूर्यमष्टौ पुष्पाणि शङ्करे // ] इति / तस्याम् / पशुपतेः प्रियोऽयं पाशुपतः, "तस्येदम्" [ सिद्ध 0 6.3.160] इत्यण् / शोभनो व्रतोऽस्य सुव्रतः। वस्ते–छादयति वसुः, "भृ-मृ-तृ-त्सरि-" [हैमोणादिसू० 716] इत्युः, स्वार्थिके के वसुकः / “वसति वसुकः” इत्यपरे, "कञ्चुकांशुक-" [ हैमोणादिसू० 57 ] इत्युके निपात्यते / “वांक् गति-गन्धनयोः" 25 वाति बुकः, “कञ्चुकांशुक-" [ हैमोणादिसू० 57 ] इत्युके निपातनात् साधुः / "वेकः" इति प्राच्याः प्रोचुः / कुले पुष्पति कुलपुष्पः / किण्वं मूलेऽस्य किण्व 1 पाण्डुरोगप्रियः नि० // 20