________________ सटीके निघण्टुशेषे . [श्लो०१७२__स्पृशति गन्धैः स्पृक्का, “निष्क-तुरुष्क-" [ हैमोणादिसू० 26] इति के निपात्यते, तस्याम् / ब्रह्मणोऽपत्यमिव ब्राह्मणी, "ङसोऽपत्ये" [सिद्ध० 6 1.28] इत्यण् , “अणजेये-" [ सिद्ध० 2.4.20] इति ङीः / पङ्कस्य मुष्टिः पङ्कमुष्टिः, के पङ्कमुष्टिका / “पिशत् अवयवे" पिंशति पिशुना, गन्धसूचनात् , “पिशि-मिथिक्षुधिभ्यः कित्" [हैमोणादिसू० 290 ] इति किदुनः / “वधूः आशावधूत्वात्" इति क्षीरस्वामी; उह्यते वधूरिति वा, “वहे च" [ हैमोणादिसू० 832] इति ऊः धश्चान्तादेशः / समुद्रे अन्तो यस्याः सा समुद्रान्ता / मरुत्सहिता मालाऽस्याः मरुन्माला / निर्गतं माल्यमस्याः निर्माल्या / देवानां पुत्री देवपुत्री, के देवपुत्रिका // 17 // 10 "वेंग् तन्तुसन्ताने" लङ्कायामूयते लङ्कोयिका, णकः प्रत्ययः / कोटिभिर्व पति मधु कोटिवर्षा / दीव्यति देवी; देवपुत्र्या एकदेशो वा देवी, यथा सत्या सत्यभामेत्यादिवत् / पङ्कजं मुष्टिरस्याः पङ्कजमुष्टिः, के पङ्कजमुष्टिका / गावः सन्त्यस्य गोमी, “गोः” [सिद्ध 0 7.2.50] इति मिन् / स्वर्णस्य लता स्वर्ण___ लता / इन्द्राणी देवपुत्रीत्वात् / म्रियते मरुत्, मारुताख्यात्वात् , "म्र उत्" 15 [हैमोणादिसू० 889] इति उत्; मल्यते-धार्यते माला; मीयते इति वा "शा-मा-श्या-" [ हैमोणादिसू०४६२] इति लः, “मारुत-स्रगाख्ये द्वे संज्ञे एते" इत्यपरैरुक्तत्वात् / “लांक् दाना-ऽऽदानयोः” लाति लायते वा लता, " पृषि-रञ्जि-" [हैमोणादिसू० 208] इति किदतः / “लघुङ् गतौ” लङ्घते लघुः, "रवि-लचि लिङ्गेर्नलुक् च" [हैमोणादिसू० 740] इति उः नकारस्य च लोपः / इन्द्राद्या 20 आहुः स्पृक्का माला पङ्कमुष्टिर्नीला देवी लता गुरुः / देवपुत्री च लोयी सीता पङ्कजमुष्टिका // स्रग् मारुता कोटिवर्षा निर्माल्या सा वधूः स्मृता // ] इति / 25 . धन्वन्तरिरप्याह स्पृक्का स्पृग् ब्राह्मणी देवी लता लकोयिका मरुत् / पङ्कमुष्टिदेवपुत्री निर्माल्या पिशुना वधूः // .. ] इति / . .