________________ सटीके निघण्टुशेषे [श्लो० १५२सल्लकी वल्लकी हादा सुरभिः सुस्रवा रसा / / अश्वमूत्री कुन्दुरुकी गजभक्षा महेरणा // [ ] इति / एतस्या लोके 'सालरि' इति प्रसिद्धिः / एरण्डे तरुणश्चित्रो दीर्घदण्डो व्यडम्बरः // 152 // पञ्चाङ्गलो वर्धमान आमण्डो रुचको रुचुः / व्याघ्रपुच्छो व्याघ्रतलश्चञ्चुरुत्तानपत्रकः // 153 // गन्धर्वहस्तकश्चञ्चुरंदण्डो हस्तिपर्णकः। उरुबूको हस्तिकर्णः, शुक्लो रक्तश्च स द्विधा // 14 // 10 . ईरयति वायुम् एरण्डः, “पिचण्डैरण्ड-" [ हैमोणादिसू०१७६ ] इत्यण्डे निपात्यते, तत्र / “तृ प्लवन-तरणयोः” तरति तरुणः, “यम्यजि-" [ हैमोणादिसू० 288 ] इत्युनः / “चिंग्ट् चयने" चीयते चित्रः, “चि-मि-दि-" [ हैमोणादिसू० 454 ] इति कित् त्रः / दीर्घो दण्डोऽस्य दीर्घदण्डः / “अड 15 निपात्यते // 152 // पञ्च अमुल्योऽस्य पञ्चाङ्गुलः, अङ्गुलीसदृशपञ्चपत्रावयवत्वात् , “बहुव्रीहेः काष्ठे टः" [सिद्ध 0 7.3.125.] इति टः समासान्तः / वर्धते वर्धमानः। "मडुण् भूषायाम्" आमण्डयति आमण्डः, अच् / आरण्ड इत्येके, दीर्घदण्डत्वात् / रोचते रुचकः, ध्रु-धून्दि-रुचि-" [ हैमोणादिसू० 29] इति किदकः। [रुचुः], "पृ-का व्याघ्रपुच्छः / व्याघ्रस्येव तलोऽस्य व्याघ्रतलः / "चञ्चू गतौ" चञ्चति चञ्चुः, "भृ-मृ-तृ--सरि-" [ हैमोणादिसू० 716] इत्युः / चुञ्चुरित्यन्ये / उत्तानं पत्रमस्य उत्तानपत्रः, के उत्तानपत्रकः // 153 // गन्धर्वस्येव हस्तोऽस्य गन्धर्वहस्तः, स्वार्थिके के गन्धर्वहस्तकः / चञ्चुरो 25 दण्डोऽस्य चञ्चुरदण्डः / हस्तिनः पर्ण इव हस्तिपर्णः, के हस्तिपर्णकः / उरु वाति उरुवूकः, "शम्बूक-शाम्बूक-" [हैमोणादिसू० 61 ] इत्यूके निपात्यते / हस्तिनः कर्ण इव हस्तिकर्णः, [ स्वार्थिके के हस्तिकर्णकः] / 'सः' एरण्डः शुक्लो रक्तश्च द्विधा / आह च 1. व्यडम्बकः नि // 2 deg रादण्डो नि० //