________________ 132] प्रथमो वृक्षकाण्डः। [73 विदुल इति प्राग्वत् / मञ्जिः सौत्रो ध्वन्यर्थः, मञ्जति मन्जरी, "ऋच्छि-चटिवटि" हेमोणादिसू० 397] इत्यरः / नमनशीलो नम्रः, “स्म्यजस-हिंस-" [सिद्ध 0 5.2. 79] इति रः / परिविध्यते अम्भसा परिव्याधः / नितरां कूयते निकुन्जः, “कुवः कुब्- कुनौ च" [ हैमोणादिसू० 129 ] इति जक्प्रत्ययः कुन् इत्यादेशश्च, के निकुन्जकः / आह च नादेयो मेघपुष्पोऽन्यस्तोयकामो निकुञ्जकः / जलौकाः संवृतोऽम्भोजो निचुलो जलवेतसः // 1 इति / जलवेतसोऽयम् / चन्द्राधास्त्वविभागेनाऽऽहुः वेतसो विदुलो नम्रो वञ्जुलो दीर्घपत्रकः / नादेयी गन्धपत्रश्च जलौकाः संवृतस्तथा // नदीकूलप्रियस्त्वन्यः सुशीतो मेघपुष्पकः / जलजातस्तोयकामो विदुलो जलवेतसः // ] इति / निचुलाद्याः सर्वेऽ येते वेतसविशेषाः / वरुणे गन्धवृक्षः स्यात् तिक्तशाकः कुमारकः // 131 // श्वेतपुष्पः श्वेतफलस्तमालो मारुतापहः / शीधुवृक्षः श्वेतवृक्षः सेतुरइमरिकारिपुः // 132 // "वृश् वरणे" वृणोति वरुणः, कर्णिकावृक्षत्वात् , “ऋ-कृ-वृ-'' [ हैमोणादिसू० 196 ] इत्यादिना उणः प्रत्ययः / तृ-क-श-प-भृ-वृ-श्रु-श-रु-रुहि-" [हैमोणादिसू० 20 187] इत्यादिना अण्प्रत्यये वरणोऽपि, तत्र / गन्धयुक्तो वृक्षो गन्धवृक्षः। तिक्तरसः शाकः तिक्तशाकः, शाकमध्ये पाठात् / कुमारप्रतिकृतिः कुमारकः, "तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः" [सिद्ध 0 5. 1. 54 ] इति कः, नित्यं तरुणत्वात् ; काम्यते कुमारः, “कमेरत उच्च" हैमोणादिसू० 409 ] इत्यारः अकारस्य च उकारः, स्वार्थिके के कुमारक इति वा // 131 // 1 साधुवृक्षः नि०॥