________________ 66] सटीक निघण्टुशेषे [श्लो० ११८"ऊर्जण् बल-प्राणयोः” भुवि ऊर्जयति इति वा, तत्र / भुवि जातो भूजः, "क्वचित्" [ सिद्ध 0 5. 1. 171 ] इति डः / बहूनि पुटान्यस्य बहुपुटः / मृद्वयस्त्वचोऽस्य मृदुत्वक, स्वार्थिके के मृदुत्वकः / मृदूनि छदान्यस्य मृदुच्छदः // 117 // रेखायुक्तानि पत्राण्यस्य रेखापत्रः / छत्राकाराणि पत्राण्यस्य छत्रपत्रः / 5 बह्वयस्त्वचोऽस्य बहुत्वक् / चम–त्वचाऽस्यास्तीति चर्मी, शिखादित्वादिन् / आहुश्चभूर्जे भूजो बहुपुटो बहुत्वको मृदुच्छदः / [ ] इति / अमरोऽप्याह" भूर्जे चर्मि-मृदुत्वचौ” [ का० 2 वर्ग 4 श्लो० 46 ] इति / भूर्जनामानि / श्लेष्मातके भृतवृक्षः पिच्छिलो द्विजकुत्सितः // 118 // वसन्तकुसुमः शेलुः फलेलुर्लेखशाटकः / . विषघाती बहुवारः शीत उददालके सेलुः // 119 // श्लिष्यति कफोऽस्मात् श्लेष्मातकः, "श्लेष्मातका-" [हैमोणादिसू० 83] 15 इत्यातके निपात्यते; श्लेष्माणमततीति वा, णकः प्रत्ययः, तत्र / भूतानां वृक्षो भूतवृक्षः / पिच्छाऽस्त्यस्य पिच्छिलः, "लोम-पिच्छादेः शेलम्" [ सिद्ध० 7. 2. 28] इतीलः / द्विजानां कुत्सितो द्विजकुत्सितः // 118 // वसन्तस्य कुसुम इव वसन्तकुसुमः। शेरतेऽस्मिन् शेलुः, "शीङो लुः" 10 / आलुप्रत्यये निपात्यते / लेखं शाटयति लेखशाटकः / विषस्य घाती विषघाती। बहु वृणोति श्रोतांसि बहुवारः। शीतवीर्यत्वात् शीतः, श्यायते स्म वा शीतः, क्तः प्रत्ययः, "श्यः शीर्द्रवमूर्ति-" [ सिद्ध 0 4.1. 97 ] इति शीरादेशः; शेते अनेन ॐ वा, "शी-री-" [ हैमोणादिसू० 201] इति कित् तः / उद्दालयत्यङ्गम् उद्दालकः, स्पर्शेन स्फोटकारित्वात् / “सिलत् उञ्छे' दन्त्यादिरयम्, सिलति सेलु:, "भृ-मृ-तत्सरि-" [ हैमोणादिसू० 716 ] इत्यादिबहुवचनादुः / आहेन्दुः.. 1. कस्तथा नि०॥