SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 20 तत्त्वचिन्तामणौ सरहस्ये तस्मात्तदनुत्पत्तेः। अपूर्वन्तु न तथा, विघ्नध्वंसद्वारा चेदमङ्गं, न विडो यजतीत्यादिविधिबोधितप्रयाजाद्यङ्गयागवददृष्टद्वारा, मङ्गलजन्यादृष्टं विनापि स्वतः सिद्धविन विरहवत आरब्धनिर्वाहात् / नचैवं विघ्नध्वंसद्वारापि नेदमङ्गं तत्रैव व्यभिचारादिति वाच्यं, सति विघ्ने तद्ध्वंसद्वारा तस्याङ्गत्वात् / न चैत्रं प्रयाजादेरपि दुरितध्वंस एव द्वारं, कल्प्यदुरितध्वंसतोऽपूर्वस्य लघुत्वात् / व्यापारः, अपूर्वद्वारा स्वफलजनककर्मविषयत्वादित्यर्थः। स्वफलत्वं स्वकर्तव्यताप्रयोजकेच्छाविषयत्वं, तेन समाप्तिमुद्दिश्य कृतस्य दक्षिणादानाद्यङ्ग कस्य कस्यचिन्मङ्गलस्यापूर्वद्वारा विघ्नध्वंसजनकत्वेऽपि न क्षतिः, समाप्तरेव निरुक्ततत्फलत्वात् , तत्र चापूर्वस्याद्वारत्वात् / न च तत्सूत्रस्य तादृशकर्मविशेषपरत्वे मानाभाव इति वाच्यं, तस्यालौकिककर्ममात्रपरत्वे "वृष्टिकामो यजेत' इत्यादिविधीनामप्रामाण्यापत्तेः, समभिव्याहृतफलजनकत्वस्यैव विध्यर्थतायाः सकलमीमांसकसिद्धत्वादिति भावः। ननु तथापि मङ्गलस्य लौकिकसमाप्तौ जनकत्वासम्भव एव मङ्गलस्याशुविनाशितया चिरकालानन्तरभाविसमाप्तिं प्रति साक्षाजनकत्वासम्भवेनापूर्वद्वारजनकताया वाच्यत्वा'दित्यत आह 'अयन्त्विति' मङ्गलाजन्यस्त्वित्यर्थः। 'प्रतिबन्धकाभावरूपः' विघ्नाभावरूपः, प्रतिबन्धकपदस्य विघ्नेऽपि प्रयोगात्, न तु कारणीभूताभावप्रतियोगित्वमत्र प्रतिबन्धकत्वं, 'तस्य चेत्यादिग्रन्थानुत्थितेः। ननु विघ्नाभावस्य कुतो व्यापारत्वं समाप्तौ तस्याजनकत्वादित्यत आह 'तस्य चेति' विघ्नाभावस्य चेत्यर्थः / 'सहकारिता' समाप्तिजनने सहकारिता, क्लुप्तैव / 'प्रतिबन्धके सति' विघ्ने सति, विघ्नत्वञ्च मङ्गलनाश्यतावच्छेदकोऽदृष्टनिष्ठो जातिविशेषः / नन्वेवं यत्र लौकिकं फलं श्रयते तत्रापि तज्जनकत्वमेव विध्यर्थः, अन्यथा सूत्रस्य विशेषपरत्वे मानाभावात्। तथा च"पुत्रकामो यजेत" इत्यादिपुढेष्ट्यादिविधीनामप्रामाण्यापत्तिः, तस्यापूर्वद्वारकत्वेन भवन्मतेऽपि पुत्रादिलौकिकफलजनकत्वासम्भवादित्यत आह 'अपूर्वन्त्विति' / 'न तथेति / न लौकिकफलजनने यागादे 1. अपूर्वस्य द्वारताया अवश्यवाच्यत्वादिति ख०। 2. अयञ्चेतीति ग० / 3. धर्मविशेष इति ग०।
SR No.032741
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorM M Mathuranatha, Badrinath Shukla
PublisherSampurnanand Sanskrit Vishva Vidyalaya
Publication Year1976
Total Pages88
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy