SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षखण्डे मङ्गलवादः मीमांसकनये अपूर्वस्यापि विध्यर्थत्वादङ्गस्य च तजनकत्वादसम्भव इति वाच्यम् ; अगस्याङ्गापूर्वजनकतयैवान्यथासिद्धतया स्वर्गादिमुख्यफलमिव परमापूर्व प्रत्यजनकत्वाद् , अङ्गापूर्वजनकतामादायैव च सर्वत्र लक्षणसम्भवात् ; प्रायश्चित्तस्थलवद् यागादिस्थलेऽप्यङ्गत्वान्यथानुपपत्त्या दक्षिणादानादेश्वरमाङ्गस्यापूर्वजनकत्वाभ्युपगमात् / यद्वा यत्कामनात्वेन तदीयफलं प्रति जनकता तत्त्वं तदीयमुख्यफलत्वम् ; भवति च स्वर्गादिकामना स्वप्रयोज्यदर्शादिसम्बन्धेन दर्शादिफलस्वर्गादिकं प्रति जनिका / अन्यथा भ्रान्त्या स्वर्गफलान्यफलकामनया कृतादपि दर्शात् स्वर्गोत्पत्त्यापत्तेः; अपूर्वकामना च न तत्त्वेन दर्शादिजन्यस्वर्गजनिका मानाभावात् / पुत्रादिफलान्तरकामनावत् केवलापूर्वकामनया कृतादपि दर्शात् स्वर्गानुत्पत्तेः सकलमीमांसकसिद्धत्वात् / यत्तु अफलत्वं फलान्तराभाववत्त्वं तदीयफलातिरिक्ताफलकत्वमिति यावत् / फलत्वश्च स्वकर्तव्यताप्रयोजकेच्छाविषयत्वमिति / तन्न; अङ्गप्रधानोभयरूपे शिखादाकव्याप्तेः। न च शिखाया न द्वैरूप्यं , किन्तु 'विशिखी व्युपवीतश्च यत् करोति न तत् कृतम्' इति वचनादङ्गत्वमेवेति वाच्यं; 'सदोपवीतिना भाव्यं सदा बद्धशिखेन तु' इति वचनात् प्रधानत्वस्यापि तत्र सत्त्वात् / न चैकस्याः शिखाव्यक्ते!भयरूपत्वं, किन्तु व्यक्तिभेदेनेति वाच्यं; तथा सति कर्मपूर्व नियमतः शिखाद्वयानुष्ठानापत्तेः, प्रधानफलकामनाकृतशिखादिव्यक्तित एव प्रसङ्गादङ्गस्यापि निर्वाह इति सकलशिष्टसम्मतत्वाञ्च / न च शिखा प्रधानं, तद्बन्धनञ्चाङ्ग; बन्धनस्य क्रियाविशेषरूपस्यास्थिरत्वेऽपि तज्जन्याङ्गापूर्वसत्त्वादेव दिनान्तरबद्धशिखातोऽप्यङ्गनिर्वाह इति वाच्यं ; 'विशिख' इति श्रवणेन शिखाया एवाङ्गत्वप्रतीतेः। लौकिकस्थले च सहकारित्वमेवाङ्गत्वं न त्वन्यद् दुर्वचत्वात् / ___ननु तथापि किन्तावदारब्धं कर्म ? न चोपान्त्यवर्णपर्यन्तवर्णसमूहरूपो ग्रन्थ एवारब्धं कर्म, चरमवर्णश्च समाप्तिः,तस्य चासमवायिकारणविधयोपान्त्यवर्णजन्यत्वेन समाप्तेरारब्धकर्मजन्यत्वमिति वाच्यम् , उपान्त्यवर्णस्य चरमवर्णविजातीयतया तत्रासमवायिकारणत्वासम्भवात्', सजातीयस्थलेऽपि कण्ठताल्वाद्यभिघातादिजन्ये चरमवणे तस्यासमवायिकारणत्वासम्भवाच्चेति चेन्न ; प्रकृते चरमवर्णपर्यन्तवर्णसमहरूपो ग्रन्थ एवारब्धं कर्म। चरमवर्णजन्यं तद्वितीयक्षणोत्पन्नतत्सजातीयं 1. सजातीयशब्दस्यैव शब्दासमवायिकारणत्वनियमादिति भावः। 2. उपान्त्यवर्णस्य शब्दात्मकत्वेन द्विक्षणस्थायितया चरमवर्णकारणीभूतकण्ठताल्वाद्यभि घातादिना नाशात् कारणत्वासम्भव इति भावः।
SR No.032741
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorM M Mathuranatha, Badrinath Shukla
PublisherSampurnanand Sanskrit Vishva Vidyalaya
Publication Year1976
Total Pages88
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy