________________ सौगतसिद्धान्तसारसंग्रहात् 153 इत्येवं स्कन्धायतनधातुस्वभाव आत्मा न भवति। नापि तेभ्यो व्यतिरिक्तः। न स्कन्धायतनधातुमान्। न स्कन्धायतनधातुष्वात्मा। नात्मनि स्कन्धायतनधातवः। इत्येवं पञ्चधा मृग्यमाण आत्मा न संभवति पूर्वोदितेन न्यायेन। यश्चेदानीं स्कन्धायतनधातुष्वेवं विचार्यमाणः पञ्चधा न संभवति, स कथमविद्यमानः संसरिष्यतीति? एवमात्मनोऽपि नास्ति संसारः, बन्ध्यासुतस्येव अविद्यमानत्वात् // 2 // निर्वाणस्याभावेन तत्प्रतिद्वन्द्विकतयाऽपि संसारो न सिद्धयति विद्यत एव संसारः, प्रतिद्वन्द्विसद्भावात्। इह यो नास्ति, न तस्य प्रतिद्वन्द्वी विद्यते, तद्यथा बन्ध्यासूनोरिति। अस्ति च संसारस्य प्रतिद्वन्द्वि निर्वाणम्। तस्मादस्ति संसार इति। उच्यते। स्यात्संसारः, यदि तत्प्रतिद्वन्द्वि निर्वाणं स्यात्। न त्वस्तीत्याह संस्काराणां न निर्वाणं कथंचिदुपपद्यते / सत्त्वस्यापि न निर्वाणं कथंचिदुपपद्यते // यदि निर्वाणं न किंचित् स्यात्, तत् परिकल्प्यमानं संस्काराणां नित्यानां वा परिकल्प्येत अनित्यानां वा। तत्र नित्यानामविकारिणां किं निर्वाणं कुर्यात्? अनित्यानामपि असंविद्यमानानां किं निर्वाणं कुर्यादिति सर्वं पूर्वेण तुल्यम्। न कथंचिदिति न केनापि प्रकारेणेत्यर्थः। अथ सत्त्वस्य निर्वाणं परिकल्प्यते, तदपि नित्यस्य वा अनित्यस्य वा पूर्ववन्नोपपद्यते // अथ नित्यानित्यत्वेनावाच्यस्य परिकल्प्यते, नन्वेवं सति निर्वाणेऽप्यात्मास्तीत्यभ्युपेतं भवति संसार इव। अपि चासोपादानस्यैवात्मनःअवाच्यता युज्यते। नचनिर्वाणे उपादानमस्तीति कुतोऽस्य अवाच्यता? भवतु वा तत्त्वान्यत्वावाच्यता आत्मनः, अपितु किमसौ निर्वाणेऽस्ति उत नास्ति। यदि अस्ति, तदा मोक्षेऽपि तस्य सद्भावान्नित्यता स्यात्। अथ नास्ति, तदा अनित्य आत्मा स्यात्। ततश्च तत्त्वान्यत्वावाच्यतावन्नित्यानित्यत्वेनापि आत्मनः अवक्तव्यतेति न स्यात् / अथ निर्वाणेऽपि आत्मनः अस्तित्वनास्तित्वेनावाच्यतेव इष्यते, एवमपि किमसौ विज्ञेयः, अथ न? यदि विज्ञेयः, न तर्हि निरुपादानोऽसावात्मा निर्वाणे विज्ञेयत्वात् संसार इव / अथ न विज्ञायते, तत्रासौ अविज्ञेय स्वरूपत्वात् खपुष्पवन्नास्त्येवेति कुतोऽस्य अवाच्यता? तदेवं निर्वाणमपि नास्ति। तदभावान्नास्ति संसार इति।