________________
॥ आधाकर्म्मनिरूपणम् ॥
५१
ऽन्यथाकारिण एते। ततश्च “अकुशलपरिकल्पितमेतद्” इत्येवं परस्य शङ्कां जनयन्निति गाथार्थः ॥२०८॥ प्रसङ्गदोषमाह
वड्ढे तप्पसंगं गेही य परस्स अप्पणो चेव ।
सजियं पि भिण्णदाढो ण मुयइ निद्धंधसो पच्छा ॥ २०९ ॥
वड्ढेति तप्पसंगं गाहा। व्याख्या - वर्द्धयति तत्प्रसङ्गम् = क ( ? का) रण-ग्रहणप्रसङ्गं, तत् गृह्णन् यथासङ्ख्यं परस्य आत्मनश्चैव, सकृदपि ग्रहणेन परः करोति यद्यसौ गृह्णातीति, गृद्धिश्चास्योपजायते अभिलाषातिरेक इत्यर्थः । ततश्च सजीवमपि भिन्नदंष्ट्रः = लब्धाऽऽस्वादः न मुञ्चति निद्धन्धसो निर्द्धर्म्मः पश्चात् = तदुत्तरकालमिति गाथार्थः ॥ २०९ ॥ अधुना आत्म-संयमविराधनामाह
खद्धे निद्धे य रुया सुत्ते हाणी तिगिच्छणे काया ।
=
पडियरगाण य हाणी कुणति किलेसं च 'किलिस्संतो॥२१०॥ दारं ॥ खद्धे गाहा । व्याख्या- आधाकर्म्म स्वादु कृत्वा प्रभूतं भक्षयति । ततश्च 'खद्धे' त्ति प्रभूते, स्निग्धे मृदु- श्लक्ष्णादिप्रचुरे, चः समुच्चये, रुजोपजायते व्याधिरित्यर्थः, इयमात्मविराधना । एवं च सति सूत्रविषया हानि:, चिकित्सायां काया व्यापाद्यन्त इति शेषः । तथा प्रतिजागरकाणामपि च अन्यसाधूनां हानिरित्येषा संयमविराधना । कुणइ किलेसं च कि ( लि) स्संतो- उभयविराधनेति गाथार्थः॥२१०॥ वक्ष्यमाणार्थसम्बन्धगाथां आह
=
जह कम्मं तु अकप्पं तच्छिक्कं वावि भायणठियं वा । परिहरणं तस्सेव य गहियमदोसं च तह भणइ ॥ २१९ ॥
जह गाहा। व्याख्या- यथेह कर्म्म अकल्पनीयं तत्स्पृष्टं वाऽपि पूति तद्भाजनस्थितं वा अकल्प्यमिति वर्त्तते। परिहरणां विध्यविधिभेदभिन्नां तस्यैव कर्म्मणो यथा च गृहीतमदोषं तदेव तथा वक्तीति गाथार्थः॥२११॥
अभोजे गमणादी य पुच्छा दव्व-कुल- देस - भावे य ।
एवं जयंते छलणा दिट्टंता तत्थिमे दोणि ॥ २१२ ॥ पडिदार गाहा ॥
अभोज्ने गाहा । व्याख्या- अभोज्ये विधिर्वक्तव्यः तत्स्वरूपं च । गमनाद्या अविधिपरिहरणदोषा वाच्या विधिपरिहरणोपायश्च, पुच्छा दव्व-कुल- खेत्त-भावे य । अथ एवमपि यतमाने साधो छलना (टि०) १. अकारणग्रह० ला० विना ॥ २. सकृदपि अग्रहणे न परः करोति नाप्यसौ गृह्णातीति जि० विना ॥ ३. किस्संतो जे२ ॥ ४. इति विशेषः जि१ ।। ५ तं जे२ ॥ ६. ०रणं वि० जि१ ।। ७. ०भिन्नं त० जि१ ॥ ८. यतमानस्य जि१ ॥
( वि०टि० ) तथा प्रतिचारकास्तदुक्तं यावन्न प्रपारयन्ति तावत् सः 'क्लिश्यमानः' पीडां सोढुमशक्नुवन् तेभ्यः कुप्यति, कुप्यंश्च तेषामपि मनसि क्लेशमुत्पादयति, अथवा क्लिश्यमानो - दीर्घकालं क्लेशमनुभवन् प्रतिचारकाणामपि जागरणतः क्लेशरोगमुत्पादयति, ततस्तेषामपि चिकित्साविधौ षट्कायविराधना । इति मलय० ।