SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ॥ छर्दितदोषनिरूपणम् ॥ सच्चित्ते अच्चित्ते मीसग तह छड्डणे य चउभंगो। चभंगे पडिसेहो गहणे आणादिणो दोसा ॥ ६६३॥ सचित्त गाधा। व्याख्या– सचित्ता - ऽचित्त - मिश्रद्रव्याणां आधाराधेयविवक्षया तथा छर्द्दने चतुर्भङ्ग्ङ्गिका भवति। चतुर्भङ्गिकायामपि प्रतिषेधः, ग्रहणे आज्ञाभङ्गादयो दोषा भवन्तीति गाथार्थः ॥६६३ ॥ अत्र दोषानाह उसिणस्स छड्डणे दिंतओ व डज्झेज्ज कायदाहो वा । सीयपडणम्मि काया पडिए महुबिंदुआहरणं ॥ ६६४ ॥ । दारं ॥ उसिणस्स गाहा । व्याख्या- उष्णस्य द्रव्यस्य छर्द्दने = समुज्झने ददमानो वा दह्येत, तदुष्णं यत्र पतति तत्र कायानां दाहो वा स्यात्, शीतद्रव्यस्य पतने 'काय'त्ति षट्कायानां घातः पतिते च भूमौ द्रव्ये मधुबिन्दूदाहरणकथन - दोषा वाच्या इति गाथार्थः ॥ ६६४ ॥ अभिहितं छर्द्दितद्वारम्, तदभिधानाच्च समाप्ता ग्रहणैषणा । गृहीतस्य चाहारस्य विधिना ग्रासः कर्त्तव्य इति, अतो ग्रासैषणा प्राप्तेति । सा च नामादिचतुर्विधा भवतीत्याह णामं -ठवणा - दविए भावे घासेसणा मुणेयव्वा । दव्वे मच्छाहरणं भावंमि उ होदि पंचविहा ॥ ६६५॥ १५९ णामं० गाहा । व्याख्या - नाम-स्थापना- द्रव्य-भावविषया चतुर्विधा ग्रासैषणा ज्ञातव्या । तत्र नाम-स्थापने क्षुण्णत्वादनादृत्य द्रव्य-भावग्रासैषणाद्वयमाह - द्रव्ये द्रव्यग्रासैषणायां मत्स्योदाहरणं भावग्रासैषणा तु पञ्चविधेति गाथार्थः ॥ ६६५ ॥ द्रव्यग्रासैषणोदाहरणसम्बन्धमाह चरियं च कप्पियं वा आहरणं दुविहमेव नायव्वं । अत्थस्स साहणट्ठा इंधणमिव ओदणट्ठाए ॥ ६६६ ॥ चरियं च गाधा । स्पष्टार्था ॥ ६६६ ॥ तत्र कल्पितोदाहरणं इदम्- जधा एगो मच्छिओ मच्छगहणणिमित्तं गओ सरवरं । तत्थ य मंस - पेसीसणाहो पक्खित्तो गलो । तत्थ य जुण्णमच्छो तं मंसं पेरंतेसु खाइऊण पच्छा पुच्छेण गलमाहणिऊण लहूमवक्कंतो। गहिउ त्ति काउं कडिओ गलो मच्छरहिओ । पुणो वि तहेव पक्खित्तो गलो सबडिसो, त खाइऊण मंसमवक्कंतो। एवं तिण्णि वाराओ जाव सव्वं मंसं खइयं न य गहिओ मच्छो त्ति । अह मंसम्मि पहीणे झायंतं मच्छियं भणइ मच्छो । किं झायसि तं एवं सुण ताव जहा अहिरिओ सि ॥ ६६७ ॥ अह गाहा । व्याख्या- अथ मांसे प्रक्षीणे ध्यायन्तं मास्त्यिकं भणति मत्स्यः " किं ध्यायसि (टि०) ९. य खं० जे१ ॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy