SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ॥ दायकदोषनिरूपणम् ॥ १५३ उक्खित्तमणावाए अकंचिलग्गे ठवंतीए॥६३७॥ । पंडग गाहा। व्याख्या- पण्डकोऽप्रतिसेवी यस्तस्माद् ग्राह्यम्, तथा गुर्विणी या कालमासिनी दात्री सा परिहार्यो तद्विपरीताया हस्ताद् ग्राह्यम्, तथा बालवत्सेति स्तनोपजीवी बालो यस्याः सा दात्री परिहार्य्या, यस्याः त्वाहारेऽपि बालो लगति तस्या हस्ताद् ग्राह्या भिक्षा स्थविरैरिति; जिनकल्पिकास्तु मूलत एवापन्नसत्त्वा बालवत्सा च या ताभ्यां हस्तान्न गृह्णन्ति, तथा कण्डमानाया उत्क्षिप्तं मुशलं अकाञ्चीलग्नबीजं अनपाये प्रदेशे स्थापयन्त्या ग्राह्यमशनादीति गाथार्थः॥६३७॥ तथा . पीसंती णिप्पिट्टे फासुं वा घुसलणे असंसत्तं। कर्तण असंखचुण्णं चुण्णं वा जा अचोक्खलिणी॥६३८॥ पीसंती गाहा। व्याख्या- पिंषन्ती निःपिष्टे = पेषणसमाप्तौ प्रासुकं वा पिंषन्ती या ददाति तस्याः हस्ताद् ग्राह्यः पिण्डः, तथा 'घुसलणे'त्ति असंसक्तं दध्यादि मथ्नत्या ग्राह्या भिक्षेति, तथा कर्त्तने या शङ्खचूर्णं विना कृणत्ति(?ती) सचूर्णं वा कृणती या न हस्तप्रक्षालनशीला तस्या हस्ताद् ग्राह्यः पिण्ड इति गाथार्थः॥६३८॥ तथा उव्वदृणे संसत्तेण वावि अहिल्लए न घटे। पिंजण-पमद्दणेसु य पच्छाकम्मं जहिं णत्थि॥६३९॥ उवट्टणे गाहा। व्याख्या- उद्वर्त्तने = कर्पासलोठने 'संसत्तेण वाविपत्ति संसक्तो- हस्तस्थो यदि कर्पासो न भवति दात्र्या, उत्तिष्ठन्ती वा ‘अहिल्लए'त्ति कर्कटकान्न घट्टयति यदि ततो ग्राह्यम्। तथा पिञ्जन-प्रमईनयोः पश्चात्कर्म यथा न भवति तथा ग्राह्या भिक्षेति गाथार्थः॥६३९॥ सेसेसु तु पडिवक्खो ण संभवइ कायगहणमादीसु। पडिपक्खस्स अभावे नियमा तु भवे तदग्गहणं॥६४०॥ दारं॥ सेसेसु गाहा। व्याख्या- शेषेषु तु पदेषु प्रतिपक्षः- अपवादो न सम्भवति कायगहणमाईसुत्ति षट्कायव्यग्रहस्तादिषु, अतः प्रतिपक्षस्य अभावानियमात्तु भवेत् तेष्वग्रहणं पिण्डस्येति गाथार्थः ॥६४०॥ गतं दायकद्वारम्। अधुनोन्मिश्रद्वारमाह- तच्च त्रिधा सचित्ता-ऽचित्त-मिश्रभेदात्, आह च सच्चित्ते अच्चित्ते मीसग उम्मीसगंमि चउभंगो। आदितिए पडिसेहो चरिमे भंगम्मि भयणा तु॥६४१॥ सचित्ते गाहा। व्याख्या- सचित्ता-ऽचित्त-मिश्रपदेषु उन्मिश्रद्वारे चत्वारो भङ्गा भवन्ति। (टि०) १. फासुयं वा खं० जे२॥ २. सत्ते खं० ॥१॥ ३. ०त्तणे भां०॥ ४. ०चुण्णे खं० विना॥ ५. ०ण्णे जे२ खं०॥ ६. ०त्तणे जे२॥ ७. ०ने असंस० जि० जि१॥ ८. ०सेहिं खं०॥ ९. य जे१॥ १०. य जे१॥ ११. ०म्मीलियं ॥१॥ १२. ०श्रभेदेषु० ला०॥ १३. अत्रा० जि०॥ (वि०टि०).. 'अढिल्लए' अस्थिकान् कार्पासिकानित्यर्थः इति मलय०॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy