SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ संस्कृतभाषानिबद्धानि स्तुति स्तोत्राणि समन्तभद्रः शान्तारिर्धर्माचार्यो दयानिधिः । सूक्ष्मदर्शी जितानङ्गः कृपालुर्धर्मदेशकः ॥ २०८ ॥ शुभंयुः सुखसाद्भूतः पुण्यराशिरनामयः । धर्मपालो जगत्पालो धर्मसाम्राज्यनायकः ॥ २०९ ॥ धानां पते तवामूनि नामन्यागमकोविदैः । समुच्चितान्यनुध्यायन् पुमान् पूतस्मृतिर्भवेत् ॥ २१० ॥ गोचरोऽपि गिरामासां त्वमवाग्गोचरो मतः । स्तोता तथाप्यसन्दिग्धं त्वत्तोऽभीष्टफलं भजेत् ॥ २११ ॥ इति दिग्वासाद्यष्टोत्तरशतम् । त्वमतोऽसि जगद्बन्धुस्त्वमतोऽसि जगद्भिषक् । त्वमतोऽसि जगद्धाता त्वमतोऽसि जगद्धितः ॥ २१२ ॥ त्वमेकं जगतां ज्योतिस्त्वं द्विरूपोपयोगभाक् । त्वं त्रिरूपैकमुक्त्यङ्गः स्वोत्थानन्तचतुष्टयः ॥ २१३ ॥ त्वं पञ्चब्रह्मतत्त्वात्मा पञ्चकल्याणनायकः । षड्भेदभावतत्त्वज्ञस्त्वं सप्तनयसंग्रहः ॥ २१४ ॥ दिव्याष्टगुणमूर्तिस्त्वं नवकेवललब्धिकः । दशावतार निर्धार्यो मां पाहि परमेश्वर ॥ २१५ ॥ युष्मन्नामावलीदृब्ध-विलसत्स्तोत्रमालया । भवन्तं परिवस्यामः प्रसीदानुगृहाण नः ॥ २१६ ॥ इदं स्तोत्रमनुस्मृत्य पूतो भवति भाक्तिकः । यः संपाठं पठत्येनं स स्यात् कल्याणभाजनम् ॥ २१७ ॥ ततः सदेदं पुण्यार्थी पुमान् पठतु पुण्यधीः । पौरुहूतीं श्रियं प्राप्तुं परमामभिलाषुकः ॥ २९८ ॥ स्तुत्वेति मघवा देवं चराचरजगद्गुरुम् । ततस्तीर्थविहारस्य व्यधात् प्रस्तावनामिमाम् ॥ २१९ ॥ भगवन् भव्यसस्यानां पापावग्रहशोषिणाम् । धर्मामृतप्रसेकेन त्वमेधि शरणं विभो ॥ २२० ॥ १७७
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy