SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ( ३७ ) श्री आदिपुराणान्तर्गता श्रीभरतचक्रिकारिता 'श्रीऋषभजिनस्तुतिः ' (प्रायः ईस्वी ८२५-८३५) (अनुष्टुभ् ) त्वं ब्रह्मा परमज्योतिस्त्वं प्रभूष्णुरजोऽरजाः । त्वमादिदेवो देवानामधिदेवो महेश्वरः ॥ १ ॥ त्वं स्रष्टा त्वं विधातासि त्वमीशानः पुरुः पुमान् । त्वमादिपुरुषो विश्वेट् विश्वराड् विश्वतोमुखः ॥ २ ॥ विश्वव्यापी जगद्भर्ता विश्वदृग्विश्वभृद्विभुः । विश्वतोऽक्षिमयं ज्योतिर्विश्वयोनिर्वियोनिकः ॥ ३ ॥ हिरण्यगर्भो भगवान् वृषभो वृषभध्वजः । परमेष्ठी परं तत्त्वं परमात्मात्मभूरसि ॥ ४ ॥ त्वमिनस्त्वमधिज्योतिस्त्वमीशस्त्वमयोनिजः । अजरस्त्वमनादिस्त्वमनन्तस्त्वं त्वमच्युतः ॥ ५ ॥ त्वमक्षरस्त्वमक्षय्यस्तवमनक्षोऽस्यनक्षरः । विष्णुर्जिष्णुर्विजिष्णुश्च त्वं स्वयम्भूः स्वयम्प्रभः ॥ ६ ॥ त्वं शम्भुः शम्भवः शंयुः शंवदः शङ्करो हरः । हरिर्मोहासुरारिश्च तमोऽरिर्भव्यभास्करः ॥ ७ ॥ पुराणः कविराद्यस्त्वं योगी योगविदां वरः । त्वं शरण्यो वरेण्योऽग्रयस्त्वं पूतः पुण्यनायकः ॥ ८ ॥ त्वं योगात्मा सयोगश्च सिद्धो बुद्धो निरुद्धवः । सूक्ष्मो निरञ्जन: कञ्जसंजातो जिनकुञ्जरः ॥ ९ ॥ छन्दो विच्छन्दसां कर्ता वेदविद्वदतां वरः । वाचस्पतिरधर्मारिर्धर्मादिर्धर्मनायकः ॥ १० ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy