________________
११०
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा तिस्रः सत्तमगुप्तयस्तनुमनोभाषानिमित्तोदयाः । पञ्चेर्यादिसमाश्रयाः समितयः पञ्चव्रतानीत्यपि । चारित्रोपहितं त्रयोदशतयं पूर्वं न दृष्टं परैः । आचारं परमेष्ठिनो जिनपतेर्वीरं नमामो वयम् ॥ ७ ॥ आचारं सह पञ्चभेदमुदितं तीर्थं परं मङ्गलं । निर्ग्रन्थानपि सच्चरित्रमहतो वन्दे समग्रान्यतीन् ॥ आत्माधीनसुखोदयामनुपमां लक्ष्मीमविध्वंसिनीम् । इच्छन् केवलदर्शनावगमनप्राज्यप्रकाशोज्ज्वलाम् ॥ ८ ॥ अज्ञानाद्यदवीवृतं नियमिनोऽवर्तिष्यहं चान्यथा । तस्मिन्नर्जितमस्यति प्रतिनवं चैनोनिराकुर्वति ॥ वृत्ते सप्ततयी निधिं सुतपसामुद्धि नयत्यद्भुतं । तन्मिथ्या गुरुदुष्कृतं भवतु मे स्वं निन्दतो निन्दितम् ॥ ९ ॥