SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ संस्कृतभाषानिबद्धानि स्तुति स्तोत्राणि परः कृपणदेवकैः स्वयमसत्सुखैः प्रार्थ्यते सुखं युवतिसेवनादिपरसन्निधिप्रत्ययम् । त्वया तु परमात्मना न परतो यतस्ते सुखं व्यपेतपरिणामकं निरुपमं ध्रुवं स्वात्मजम् ॥ २८ ॥ पिशाचपरिवारितः पितृवने नरीनृत्यते क्षरद्रुधिरभीषणद्विरदकृत्तिहेलापट: । हरो हसति चायतं कहकहाट्टहासोल्बणं कथं परमदेवतेति परिपूज्यते पण्डितैः ॥ २९ ॥ मुखेन किल दक्षिणेन पृथुनाऽखिलप्राणिनां समत्ति शवपूतिमज्जरुधिरान्त्रमांसानि च । गणैः स्वसदृशैर्भृशं रतिमुपैति रात्रिन्दिवं पिबत्यपि च यः सुरां स कथमाप्तताभाजनम् ॥ ३० ॥ अनादिनिधनात्मकं सकलतत्त्वसंबोधनं समस्तजगदाधिपत्यमथ तस्य संतृप्तता । तथा विगतदोषता च किल विद्यते यन्मृषा सुयुक्तिविरहान्न चाऽस्ति परिशुद्धतत्त्वागमः ॥ ३१ ॥ कमण्डलुमृगाजिनाक्षवलयादिभिर्ब्रह्मणः शुचित्वविरहादिदोषकलुषत्वमभ्यू । भयं विघृणता च विष्णुहरयोः सशस्त्रत्वतः स्वतो न रमणीयता च परिमूढता भूषणात् ॥ ३२ ॥ स्वयं सृजति चेत्प्रजाः किमिति दैत्यविध्वंसनं सुदुष्टजननिग्रहार्थमिति चेदसृष्टिर्वरम् । कृतात्मकरणीयकस्य जगतां कृतिर्निष्फला स्वभाव इति चेन्मृषा स हि सुदुष्ट एवाऽऽप्यते ॥ ३३ ॥ प्रसन्नकुपितात्मनां नियमतो भवेदुःखिता तथैव परिमोहिता भयमुपद्रुतिश्चामयैः । तृषाऽपि च बुभुक्षया च न च संसृतिश्छिद्यते जिनेन्द्र ! भवतोऽपरेषु कथमाप्तता युज्यते ॥ ३४ ॥ ९५
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy