SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ( ६ ) श्रीपात्रकेसरिस्वामिकृता 'श्रीजिनेन्द्रगुणसंस्तुतिः ' (ईस्वी सप्तमशताब्द्याः पूर्वार्धं प्रायः ) ( पृथ्वीछन्दः) जिनेन्द्र ! गुणसंस्तुतिस्तव मनागपि प्रस्तुता भवत्यखिलकर्मणां प्रहतये परं कारणम् । इति व्यवसिता मतिर्मम ततोऽहमत्यादरात् स्फुटार्थनयपेशलां सुगत ! संविधास्ये स्तुतिम् ॥ १ ॥ मतिः श्रुतमथवावधिश्च सहजं प्रमाणं हि ते ततः स्वयमबोधि मोक्षपदवीं स्वयम्भूर्भवान् । न चैतदिह दिव्यचक्षुरधुनेक्ष्यतेऽस्मादृशां यथा सुकृतकर्मणां सकलराज्यलक्ष्म्यादयः ॥ २ ॥ व्रतेषु परिरज्यसे निरुपमे च सौख्ये स्पृहा बिभेष्यपि च संसृतेरसुभृतां वधं द्वेक्ष्यपि । कदाचिददयोदयो विगतचित्तकोऽप्यञ्जसा तथाऽपि गुरुरिष्यसे त्रिभुवनैकबन्धुर्जिनः ॥ ३ ॥ तपः परमुपश्चितस्य भवतोऽभवत्केवलं समस्तविषयं निरक्षमपुनश्च्युति स्वात्मजम् । निरावरणक्रमं व्यतिकरादपेतात्मकं तदेव पुरुषार्थसारमभिसम्मतं योगिनाम् ॥ ४ ॥ परस्परविरोधवद्विविधभङ्गशाखाकुलं पृथग्जनसुदुर्गमं तव निरर्थकं शासनम् । तथापि जिन ! सम्मतं सुविदुषां न चात्यद्भुतं 'भवन्ति हि महात्मनां दुरुदितान्यपि ख्यातये ॥ ५ ॥ सुरेन्द्रपरिकल्पितं बृहदनर्घ्यसिंहासनं तथाऽऽतपनिवारणत्रयमथोल्लसच्चामरम् । वशं च भुवनत्रयं निरुपमा च निःसंगता न संगतमिदं द्वयं त्वयि तथाऽपि संगच्छते ॥ ६ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy