SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ संस्कृतभाषानिबद्धानि स्तुति स्तोत्राणि हलभृच्च ते स्वजनभक्तिमुदितहृदयौ जनेश्वरौ । धर्मविनयरसिकौ सुतरां चरणारविन्दयुगलं प्रणेमतुः ॥ १२६ ॥ ककुदं भुवः खचरयोषिदुषितशिखरैरलङ्कृतः । मेघपटलपरिवीततट स्तव लक्षणानि लिखितानि वज्रिणा ॥ १२७ ॥ वहतीति तीर्थमृषिभिश्च सततमभिगम्यतेऽद्य च । प्रीतिविततहृदयैः परितो भृशमूर्जयन्त इति विश्रुतोऽचलः ॥ १२८ ॥ बहिरन्तरप्युभयथा च करणमविघाति नाऽर्थकृत् । नाथ ! युगपदखिलं च सदा त्वमिदं तलाऽऽमलकवद्विवेदिथ ॥ १२९ ॥ अत एव ते बुधनुतस्य चरितगुणमद्भुतोदयम् । न्यायविहितमवधार्य जिने त्वयि सुप्रसन्न मनसः स्थिता वयम् ॥ १३० ॥ ( वंशस्थ ) तमालनीलैः सधनुस्तडिद्गुणैः प्रकीर्णभीमाऽशनि-वायु- वृष्टिभिः । बलाहकैर्वैरिवशैरुपद्रुतो महामना यो न चचाल योगतः ॥ १३१ ॥ बृहत्फणामण्डलमण्डपेन यं स्फुरत्तडित्पिङ्गरुचोपसर्गिणम् । जुगूह नागो धरण धराधरं विरागसंध्यातडिदम्बुदो यथा ॥ १३२ ॥ ८१
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy