SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि त्रिकालत्रिलोकत्रिशक्तित्रिसन्ध्य त्रिवर्गत्रिदेवत्रिरत्नादिभावैः । यदुक्ता त्रिपद्येव विश्वानि वने स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १३ ॥ यदाज्ञा त्रिपद्येव मान्या ततोऽसौ तदस्त्येव नो वस्तु यन्नाधितष्ठौ । अतो ब्रूमहे वस्तु यत् तद् यदीयं स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १४ ॥ न शब्दो न रूपं रसो नापि गन्धो __न वा स्पर्शलेशो न वर्णो न लिङ्गम् । न पूर्वापरत्वं न यस्यास्ति संज्ञा स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १५ ॥ छिदा नो भिदा नो न क्लेदो न खेदो न शोषो न दाहो न तापादिरापत् । न सौख्यं न दुःखं न यस्यास्ति वाञ्छा स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १६ ॥ न योगा न रोगा न चोद्वेगवेगाः स्थितिगति! न मृत्युर्न जन्म । न पुण्यं न पापं न यस्यास्ति बन्धः । __स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १७ ॥ तपः संयमः सूनृतं ब्रह्म शौचं __मृदुत्वार्जवाकिञ्चनत्वानि मुक्तिः । क्षमैवं यदुक्तो जयत्येव धर्मः ___स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १८ ॥ अहो ! विष्टपाधारभूता धरित्री निरालम्बनाधारमुक्ता यदास्ते । अचिन्त्यैव यद्धर्मशक्तिः परा सा । स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १९ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy