SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ १८५६ . बौधायनस्मृतिः। [अष्टमो वैश्वानराय प्रतिवेदयाम इति द्वादशर्चेन सूक्तेनोपतिष्ठते ॥१३ यन्मया मनसा वाचा कृतमेनः कदाचन सर्वस्मा(त्तस्मा)न्मेडितो मोग्धि त्वं हि वेत्थ यथातथं स्वाहेति ॥१४ समिधमाधाय वरं ददाति ॥१५ जयप्रभृति सिद्धमा धेनुवरप्रदानात् ॥१६ एक एवाग्नौ परिचर्य ॥१७ अथाग्न्याधेये ॥१८ यद्देवा देवहेडनं यददीव्यन्नृणमहं बभूवाऽऽयुष्टे विश्वतो दधदिति ॥१६ पूर्णाहुति हुत्वाऽग्निहोत्रमारप्स्यमानो दशहोत्रा हुत्वा दर्शपूर्णमासावारप्स्यमानश्चतुर्होत्रा हुत्वा चातुर्मास्यान्यारप्स्यमानः पञ्चहोत्रा हुत्वा पशुबन्धे षड्ढोत्रा सोमे सप्तहोत्रा ॥२० विज्ञायते च ॥२१ कर्मादिष्वेतर्जुहुयात्पूतो देवलोकान्समश्नुत इति हि ब्राह्मणमिति हि ब्राह्मणम् ।।२२ इति तृतीयप्रश्ने सप्तमोऽध्यायः। अथ तृतीयप्रश्नेऽष्टमोऽध्यायः । अथ चान्द्रायणकल्पाभिधानवर्णनम् । अथातश्चान्द्रायणस्य कल्पं व्याख्यास्यामः ॥१ शुक्लचतुर्दशीमुपवसेत् ॥२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy