SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ १८३८ बौधायनस्मृतिः। [दशमोअपो वा ॥१३ ओं भूः सावित्रीं प्रविशामि तत्सवितुर्वरेण्यम् ।।१४ ओं भुवः सावित्री पूविशामि भर्गो देवस्य धीमहि ॥१५ ओं स्वः सावित्री पूविशामि धियो यो नःपूचोदयादिति ॥१६ पच्छोऽर्धर्चशस्ततः समस्तया च व्यस्तया च ॥१७ आश्रमादाश्रममुपनीय ब्रह्मपूतो भवतीति विज्ञायते ॥१८ अथाप्युदाहरन्ति ॥१६ आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः। भिक्षाबलिपरिश्रान्तः पश्चाद्भवति भिक्षुक इति ।।२० स एष भिक्षुरानन्त्याय ॥२१ पुराऽऽदित्यस्यास्तमयाद्गाहपत्यमुपसमाधायान्वहार्यपचनमाहृत्य ज्वलन्तमाहवनीयमुद्धृत्य गाईपत्य आज्यं विलाप्योत्पूय सुचि चतुर्गृहीतं गृहीत्वा समिद्वत्याहवनीये पूर्णाहुतिं जुहोति, ओं स्वाहेति ॥२२ एतद्ब्रह्मान्वाधानमिति विज्ञायते॥२३ अथ सायं हुतेऽग्निहोत्र उत्तरेण गार्हपत्यं तृणानि संस्तीर्य तेषु द्वंद्वं न्यश्चि पात्राणि सादयित्वा दक्षिणेनाऽऽहवनीयं ब्रह्मायतने दर्भान्संस्तीर्य तेषु कृष्णाजिनं चान्तर्धायैतां रात्रि जागति ॥२४ य एवं विद्वान्ब्रह्मरात्रिमुपोष्य ब्राह्मणोऽग्नीन्समारोप्य प्रमीयते सर्व पाप्मानं तरति तरति ब्रह्महत्याम् ।।२५ अथ ब्राह्मे मुहूर्त उत्थाय काल एव प्रारग्निहोत्रं जुहोति ॥२६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy