SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] अनध्यायप्रकरणवर्णनम्। १७६६ सर्वाऽस्यैषा प्रजा भवत्यथ यदवाचीनं नाभेस्तेन हास्यौरसी प्रजा भवति तस्माच्छोत्रियमनूचानमप्रजोऽसीति न वदन्ति । तस्माद् द्विनामा द्विमुखो विप्रो द्विरेता द्विजन्मा चेति ॥३४ शूद्रापपात्रश्रवणसंदर्शनयोश्च तावन्तं कालम् ॥३५ नक्तं शिवाविरावे नाधीयीत स्वप्नान्तम् ॥३६ अहोरात्रयोश्च संध्योः पर्वसु च नाधीयीत ॥३७ न मांसमश्नीयान स्त्रियमुपेयात् ॥३८ पर्वसु हि रक्षःपिशाचा व्यभिचारवन्तो भवन्तीति विज्ञायते॥ अन्येषु चाद्भुतोत्पातेष्वहोरात्रमनध्यायोऽन्यत्र मानसात् ॥४० मानसेऽपि जननमरणयोरनध्यायः॥४१ अथाप्युदाहरन्ति ॥४२ . हन्त्यष्टमी घुपाध्यायं हन्ति शिष्यं चतुर्दशी। हन्ति पञ्चदशी विद्यां तस्मात्पर्वणि वर्जयेत्तस्मात्पर्वणिवर्जयेदिति ॥४३ इति प्रथमप्रश्न एकादशोऽध्यायः। - अथ द्वादशोऽध्यायः। अथ पूर्वोक्तानेकविधप्रकरणवर्णनम् । यथा युक्तो विवाहः॥१ अष्टौ विवाहाः॥२ क्षत्रियवधे गोसहस्रम् ॥३ षड्भागभृतो राजा रक्षेत् ॥४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy