SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] मूत्रपुरीषाद्युपहतद्रव्याणां शुद्धिवर्णनम् । १७८६ बहूनां तु प्रोक्षणम् ||२६ दारुमयाणां पात्राणामुच्छिष्टसमन्वारब्धानामव लेखनम् ॥२७ उच्छिष्टलेपोपहतानामवतक्षणम् ॥२८ मूत्रपुरीषलोहित रेतः प्रभृत्युपहतानामुत्सर्गः ॥ २६ तदेतदन्यत्र निर्देशात् ||३० यथैतदग्निहोत्रे ध(घ)र्मोच्छिष्टे च दधिध (घ) र्मे च कुण्डपायिनामयने चोत्सरिणामयने च दाक्षायणयज्ञे चेडादवे च चतुश्चक्रे च ब्रह्मौदनेषु च तेषु सर्वेषु दर्भैरद्भिः प्रक्षालनम् ॥३१ सर्वेष्वेव सोमभक्षेष्वद्भिरेव मार्जालीये प्रक्षालनम् ॥३२ मूत्रपुरीषलोहितरेतः प्रभृत्युपहतानामुत्सर्गो मृण्मयानांपात्राणाम् ||३३ मृण्मयानां पात्राणामुच्छिष्टसमन्वारब्धानामवकूलनम् ॥३४ उच्छिष्टले पोपहतानां पुनर्दहनम् ||३५ मूत्रपुरीषलोहितरेतः प्रभृत्युपहतानामुत्सर्गः ॥३६ तैजसानां पात्राणां पूर्ववत्परिमृष्टानां प्रक्षालनम् ॥३७ परिमार्जनद्रव्याणि गोशकृन्मृद्भस्मेति ॥ ३८ मूत्रपुरीष लोहित रेतः प्रभृत्युपहतानां पुनः करणम् ॥३६ गोमूत्रे वा सप्तरात्रं परिशायनम् ||४० महानद्यां वैवम् ॥४१ अश्ममयाना मलाबु बिल्व विनाडानां गोवालैः परिमार्जनम् ॥ नडवेणुशर कुशव्यूतानां गोमयेनाद्भिरिति प्रक्षालनम् ॥४३ व्रीहीणामुपघाते प्रक्षाल्यावशोषणम् ॥४४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy