SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] भूमिशुद्धिः, श्रद्धाप्रशंसा च वर्णनम्। १७८१ आपः पवित्रा भूमिगता गोतृप्तिर्यासु जायते । अव्याप्ताश्चेदमध्येन गन्धवर्णरसान्विताः॥६५ भूमेस्तु संमार्जनप्रोक्षणोपलेपनावस्तरणोल्लेखनैर्यथास्थानं दोषविशेषात्प्रायत्यम् ॥६६ अथात्युदाहरन्ति ॥६७ गोचर्ममात्रमबिन्दुर्भमेः शुध्यति पतितः। समूढमसमूढं वा यत्रामध्यं न लक्ष्यत, इति ॥६८ परोक्षमधिश्रितस्यान्नस्यावद्योत्याभ्युक्षणम् ॥६६ तथाऽऽपणे(णी)यानां च भक्ष्याणाम् ।।७० वीभत्सवः शुचिकामा हि देवा नाश्रद्दधानाय हविर्जुषन्त इति ।।७१ शुचेरश्रद्दधानस्य श्रद्दधानस्य चाशुचेः। मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ।।७२ प्रजापतिस्तु तानाह न समं विषमं हि तत् । हतमश्रद्दधानस्य श्रद्धापूतं विशिष्यत, इति ॥७३ अथाप्युदाहरन्ति ॥७४ अश्रद्धा परमः पाप्मा श्रद्धा हि परमं तपः। तस्मादश्रद्धया दत्तं हवि श्नन्ति देवताः ॥७५ दृष्वादत्त्वाऽपि वा मूर्खः स्वर्ग न हि स गच्छति । शङ्काविहतचारित्रो यः स्वाभिप्रायमाश्रितः ॥७६ शास्त्रातिगः स्मृतो मूखों धर्मतन्त्रोपरोधनादिति ॥७७ शाकपुष्पफलमूलौपधीनां तु प्रक्षालनम् ॥७८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy