SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] श्राद्धप्रकरणवर्णनम् । १०६३ तेभ्यश्चैवाऽऽशिषो लब्ध्वा नमस्कुर्याद्विजांस्तथा । अभ्यज्याऽऽज्य द्विजानां च पादान्प्रक्षालयेत्क्रमात् ॥१०३ अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात् । अद्य मे वंशजाः सर्वे याता वोऽनुग्रहादिवम् ।।१०४ ताम्बूलं च ततो दद्याद्यथाविभवसारतः । कृताञ्जलिपुटो भूत्वा प्रार्थयेत्ताननेन च ॥१०५ पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः। तत्क्लेशजातं चित्तात्तु विस्मृत्य क्षन्तुमर्हथ ।।१०६ वसिष्ठसहशा यूयं सूर्यपर्वसमा तिथिः । आसनादि नमस्कारो भवत्सत्कार एव हि ॥१०७ यस्य स्मृत्या च नामोच्या तपोयक्रियादिषु । न्यून संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥१०८ मन्त्रहीनं क्रियाहीनं भक्तिहीनं द्विजोत्तमाः। श्राद्धं भवति संपूर्ण प्रसादाद्भवतां मम ॥१०६ अनेन पितृयज्ञेन प्रीयतां भगवानिह। मया भक्त्या कृतं सर्व तत्सब्रह्मार्पणं भवेत् ॥११० वसिष्ठासस्ततो देवा वसिष्ठश्च जपेदिमौ। पितृस्तुतिकरां गाथामिदं पितृभ्य एव च ॥१११ मन्त्रान्छण्वत(न्त) इत्येतान्संतुष्टाः पितरो गृहे । दत्त्वाऽभीष्टफलं कर्तुं (तुः) प्रयान्तीदमनुत्तमम् ।।११२ अनेन विधिना चैव यः श्राद्धं कुरुते द्विजः । भुक्त्वेह सकलान्कामान्सोऽपि सायुज्यमाप्नुयात् ॥११३ इत्याश्वलायनधर्मशाले श्राद्धप्रकरणम् ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy