SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ १७३८ लध्वाश्वलायनस्मृतिः। [अष्टादशो पिता यस्य मृतश्चेत्स्यादधिकारी पितामहः । तदभावे तु वै भ्राता पितृव्यो गोत्रजो गुरुः ॥२ व्रतबन्धे विवाहे च कन्यायाश्चापि व तथा । सपत्नीको वाऽपत्नीकः सोऽधिकारी भवेदिह ॥३ संस्कार्यस्य च वै यस्य यदि माता विपद्यते । पत्नी विनेति नियमः सद्भिश्चैवात्र नोच्यते ॥४ गृहलो ब्रह्मचारी वा योऽधिकारी स एव हि । संरकुर्यादथ वा (तत्र)ब्राह्मणो ब्रह्मसंभवम् ।।५ इत्याश्वलायनस्मृताधिकारिनियम[प्रकरणम् । - ॥ अष्टादशोऽध्यायः ॥ अथ नान्दीश्राद्ध पितृप्रकरणम् । अथ नान्दीश्राद्धपूर्वककर्माण्याह। आषाने पुंसि सीमन्ते जातनामनि निष्क्रमे । अन्नप्राशनके चौले तथा चैवोपनायने ॥१ ततश्चैव महानाम्नि तथैव च महाव्रते । अथोपनिषद्गोदाने समावर्तनकेषु च ॥२ विवाहे नियतं नान्दीश्राद्धमेतेषु शस्यते । प्रवेशं च नवोढायाः स्वस्तिवाचनपूर्वकम् ॥३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy