SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ १७१२ लध्वाश्वलायनस्मृतिः। [पञ्चमो पतिपुत्रवती नारी गर्भिण्या(णी)मुपदेशयेत् । मा कुरु क्लेशदं कर्म गर्भसंरक्षणं कुरु ॥१४ . ततः स्विष्टकदादि स्याद्धोमशेषं समापयेत् । पूर्ववत्फलदानानि कृत्वाऽऽचार्याय दक्षिणाम् ॥१५ वृषभं धेनुसंयुक्तं दद्याद्विभवसारतः । भोजयेच्छक्तितो विप्रान्कर्मसाद्गुण्यहेतवे ॥१६ प्राशनं यत्पुंसवनं होमश्चानवलोभनम् । प्रतिगर्भमिदं कुर्यादाचार्येणेह भाषितम् ॥१७ : आज्यहोमश्च शललीकुशल्यप्सु निमज्जनम् । ... सीमन्तोन्नयनं तच प्रतिगर्भे न हि स्मृतम् ॥१८ प्रधानं पुंसवनं न स्यादङ्गं चानवलोभनम् । सीमन्तं च तथैव स्यात्केचिदुन्नयनं तथा ॥१६ इत्याश्वलायनधर्मशास्त्रे पुंसवनानवलोभनसीमन्तो नयन [प्रकरणम् ॥ पञ्चमोऽध्यायः ॥ अथ जातकर्मप्रकरणम् । जाते सुते पिता स्नायान्नान्दीश्राद्धं विधानतः । जातकर्म ततः कुर्यादैहिकामुष्मिकप्रदम् ॥१ सौवर्णे राजते वाऽपि पात्रे कांस्यमयेऽपि वा। मधुसर्पिनिषिच्याथ हिरण्येनावघर्षयेत् ॥२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy