SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] गर्भाधनप्रकरणवर्णनम्। १७०६ नान्दीश्राद्धं पतिः कुर्यात्स्वस्तिवाचनपूर्वकम् । उपलेपादिकं कृत्वा प्रातरौपासनादितः ॥३ प्रजापतेश्वरोरेका हुत्वा चाऽऽज्याहुतीरथ । विष्णुर्योनि नेजमेष षडका च प्रजापतेः॥४ आसीनायाः शिरः स्पृष्ट्वा प्रामुख्याः पाणिनापतिः। तिष्ठञ्जपेदिमे सूक्ते त्वपनश्च वधेन च ।।५ अग्निस्तुविश्रवस्तममित्युचौ द्वे तथैव च। सूर्यो नो दिव इत्येतैः स्तुत्वा सूर्य च पञ्चभिः ॥५ अश्वगन्धारसं पल्या दक्षिणे नासिकापुटे। उदीइँति पठन्मनं सिञ्चेत्तद्वस्त्रशोधितम् ॥७ ततः स्विष्टकृदादि स्याद्वाससी च नवे तयोः । फलानि च पतिस्तस्यै प्रदद्यात्फलमन्त्रतः॥८ . मातुलिङ्गं नारिकेलं रम्भाखर्जूरपूरकम् । शस्तानि स्युरथान्यानि नारिङ्गादीनि वाऽपि च ॥8 वृषभं गां सुवर्ण च होने दद्याञ्च दक्षिणाम् । पुत्रवान्धनवांस्तेन भवेत्कर्ता न संशयः॥१० भोजयित्वा द्विजान्सम्यक्तोषयेद्दक्षिणादिभिः । संतुष्टा देवताः सर्वाः प्रयच्छन्तीप्सितं फलम् ॥११ स्थालीपाकं चाऽऽप्रयणं गर्भसंस्कारकर्मसु । प्रातरौपासने कुर्यादग्नौकरणमेव च ॥१२ प्रसन्नात्मा भवेत्कर्ता भुञ्जीत सह बन्धुभिः । तस्मिन्नेव दिने रात्रौ गर्भारोपणमिष्यते ॥१३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy