SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ १६३४ व्यासस्मृतिः । तौर्यत्रिकानृतोन्मादपरिवादानलक्रियाम् । अञ्जनोद्वर्त्तनादर्शस्रग्विलेपनयोषितः ॥२८ वृथाटनमसन्तोषं ब्रह्मचारी विवर्जयेत् । ईषञ्चलितमध्याह्न ऽनुज्ञातो गुरुणा स्वयम् ॥२६ आलोलुपश्चरेद्भैक्षं व्रतिषूत्तमवृत्तिषु । सद्यो भिक्षान्नमादाय वित्तवत्तदुपस्पृशेत् ||३० कृतमाध्याह्निकोऽश्नीयादनुज्ञातो यथाविधि । नाद्यादेकान्नमुच्छिष्टं भुक्त्वा चाऽऽचामितामियात् ॥ ३१ नान्यद्भिक्षितमादद्यादापन्नो द्रविणादिकम् । अनिन्द्यामन्त्रितः श्राद्ध े पैत्र्येऽद्याद्गुरुचोदितः ॥३२ एकान्न मप्यविरोधे व्रतानां प्रथमाश्रमी । [ प्रथमो भुक्त्वा गुरुमुपासीत कृत्वा सन्धुक्षणादिकम् ||३३ समिधोऽग्नावादधीत ततः परिचरेद्गुरुम् । अधीत (शयीत)गुर्वनुज्ञातः प्र ( प्रबुद्धः) प्रथमं गुरोः ॥ ३४ एवमन्वहमभ्यासी ब्रह्मचारी व्रतभ्वरेत् । हितोपवादः प्रियवाक् सम्यग्गुर्वर्थसाधकः ॥३५ नित्यमाराधयेदेनमा समाप्तेः श्रुतिग्रहात् । अनेन विधिनाऽधीतो वेदमन्त्रो द्विजं नयेत् ॥ ३६ शापानुप्रहसामर्थ्यमृषीणाञ्च सलोकताम । पयोऽमृताभ्यां मधुभिः साज्यैः प्रीणन्ति देवताः || ३७ तस्मादहरहर्वेदमनध्यायमृते पठेत् । यदङ्गं तदनध्याये गुरोर्वचनमाचरेत् ॥ ३८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy