SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ १६०६ औशनस्मृतिः । नास्तिकाद्यदि कुर्वीत प्राजापत्यं चरेद् द्विजः । देवद्रोह गुरुद्रोह तप्तकृच्छ्र ेण शुध्यति ॥ ६६ [ नवमों उष्ट्र्यानं समारुह्य खरयानश्च कामतः । त्रिरात्रेण विशुध्येत नग्नो न प्रविशेज्जलम् ॥७० षष्ठान्नकालमा वा संहिताजपमेव वा । होमाच शाकलान्नित्यमपत्यानां विशोधनम् ॥७१ नीलं रक्तं वसित्वा तु ब्राह्मणो वमेव हि । अहोरात्रोषितः स्नातः पञ्चगव्येन शुध्यति ।।७२ वेदधर्मपुराणाश्च चण्डालस्य च भाषणम् । चान्द्रायणेन शुद्धि: स्यान ह्यन्या तस्य निष्कृतिः ॥ ७३ उद्बन्धनादिनिहतं संस्पृश्य ब्राह्मणः कचित् । चान्द्रायणेन शुद्धः स्यात् प्राजापत्येन वा पुनः ॥७४ उच्छिष्टो यदि माचान्तश्चण्डालादीन् स्पृशेद् द्विजः । उच्छिष्ट स्तत्र कुर्वीत प्राजापत्यं विशुद्धये ॥७५ चण्डालसूतकशवांस्तथा नारीं रजस्वलाम् । स्पृष्ट्रा स्नायाद्विशुध्यर्थं तत्स्पृष्टान् पतितांस्तथा ॥७६ चण्डालसूतकशनैः संस्पृष्टं स्पर्शयेद् यदि । प्रमादात् स्नात आचम्य जपं कृत्वा विशुध्यति ॥७७ अस्पृष्टस्पर्शनं कृत्वा स्नात्वा शुध्येद् द्विजोत्तमः । आचमेत विशुध्यर्थं प्राह देवः पितामहः ॥७८ विज्ञानस्य तु विप्रस्य कदाचित् स्रवते गुदम् । कृत्वा शौचं ततः स्नात्वा उपोष्य जुहुयाद् घृतम् ॥७६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy