SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] सपिण्डीकरण श्राद्धविधानवर्णनम् । सपिण्डीकरणं प्रोक्तं पूर्णे सम्वत्सरे पुनः। कुर्यात् चत्वारि पात्राणि प्रेतादीनां द्विजोत्तमाः !॥१५ प्रेताथं पितृपागेषु पात्रमासेचयेत्ततः । ये समाना इति द्वाभ्यां पिण्डानप्येवमेव हि ॥१६ सपिण्डीकरणश्राद्धं दैवपूर्व विधीयते । पितृनावाहगेत्तत्र पुनः प्रेतञ्च निर्दिशेत् ॥१७ ये सपिण्डोकृताः प्रेता न तेषां स्यात् पृथक् क्रिया । यस्तु कुर्यात् पृथक् पिण्डं पितृहा त्वभिजायते ॥१८ मृते पितरि वै पुत्रः पिण्डशब्दं सर्माविशेत् । दद्याच्चान्नं सोदकुम्भं प्रत्यहं प्रेतधर्मतः॥१६ पार्वणेन विधानेन साम्वत्सरिकमिष्यते । प्रतिसम्वत्सरं कायं विद्धिरेष सनातनः ॥२० मातापित्रोः सुतैः काय पिण्डदानादि किञ्चन । पत्नी कुर्यात् सुताभावे पल्यभावे तु सोदरः ॥२१ एष वः कथितः सम्यक् गृहस्थानां यथाविधि । स्त्रीणाञ्च भतशुश्रूषा धर्मो नान्य इहेष्यते ॥२२ यः स्वधर्मपरो नित्यमीश्वरार्पितमानसः । प्राप्नोति परमं स्थानं यदुक्तं वेदसम्मितम् ।।२३ इत्यौशनस्मृतौ सप्तमोऽध्यायः।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy