SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रकरणवर्णनम् । श्राद्ध भोजनकाले तु दीपो यदि विनश्यति । पुनरन्नं न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥५१ माषानपूपान्विविधान्दद्यात् सरसपायसम् । सूपशाकफलानिष्टान् पयो दधि घृतं मधु ||५२ अन्नचैव यथाकामं विधिसम्भक्ष्य पेयकम् । यद्यदिष्टं द्विजेन्द्राणां तत्तत् सर्वं निवेदयेत् ॥ ५३ धान्यांस्तिलाश्च विविधाः शर्करा विविधा स्तथा । उष्णमन्नं द्विजातिभ्यो दातव्यं श्रेय इच्छता ॥५४ अन्यत्र फलमूलेभ्यः पानकेभ्य स्तथैव च । नाश्रूणि पातयेज्जातु न कुप्यान्नानृतं वदेत् ॥५५ न पादेन स्पृशेदन्नं न चैनमवधूनयेत् । क्रोधेनैव च यद्दत्तं यद् दत्तं त्वरया पुनः ॥ ५६ यातुधाना विलुम्पन्ति यच्च पापोपपादितम् । स्विन्नगात्रो न तिष्ठेत सन्निधौ तु द्विजन्मनाम् ॥५७ न च पश्येत काकादीन् पक्षिणस्तु न वारयेत् । तद्रूपाः पितर स्तत्र समायान्ति बुभुत्सवः ॥ ५८ न दद्यात्तत्र हस्तेन प्रत्यक्षलवणं तथा । नचायसेन पात्रेण न चैवाश्रद्धया पुनः ॥५६ काञ्चनेन तु पात्रेण तथा त्वौदुम्बरेण च । उत्तमाधिपतां याति खड्गेन तु विशेषतः || ६० पात्रे तु मृण्मये यो वै श्राद्ध भोजयते पिपून् । स याति नरकं घोरं भोक्ता चैव पुरोधसः ||६१ ऽध्यायः ] १५८३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy