SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] ब्रह्मचारिप्रकरणे शौचाचारवर्णनम्। १५५५ अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् । सोपानको जलस्थो वा नोष्णीषी वाऽऽचमेद् बुधः ।।१० न चैव वर्षधाराभिन तिष्ठन्न धृतोदकैः । नैकहस्तार्पितजलैविना शूद्रेण वा पुनः ॥११ न पादुकासनस्थो वा बहिर्जानुरथापि वा। न जल्पन्न हसन् प्रेक्षमाणश्च प्रह्व एव वा । नावीक्षमाणाद्भिन्नोष्णाद्भिन्नफेनादथापि वा ॥१२ शूद्राशुचिकरैर्मुक्तैनक्षाराभिस्थैव च । न चैवाङ्गुलिभिः शब्दमकुर्वन्नान्यमानसः ॥१३ न वर्णरसदुष्टाभिर्नचैव प्रदरोदकैः। न प्राणिजनिताभिर्वा न बहिः कलमेव वा ॥१४ हृद्राभिः पूयते विप्रः कणाभिः क्षत्रियः शुचिः । प्राशिताभिस्तथा वैश्यः (स्त्री) शूद्रः संस्पर्शनैस्ततः ॥१५ अङ्गुटमूलान्तरतो रेखायां ब्रह्म उच्यते । अन्तराङ्गुष्ठदेशिन्यो पितृणां तीर्थमुत्तमम् ॥१६ कनिष्ठो मूलतः पश्चात्प्राजापत्यं प्रचक्षते । अङ्गुल्यग्रे स्मृतं देवं तथैवार्ष प्रक्रीर्तितम् । मूले स्यादेवमाष स्यादाग्नेयं मध्यतः स्मृतम् ॥१७ तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति। ब्राह्मणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् । । कायेन वा देवतेन न तु पित्र्येण वा द्विजाः !॥१८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy