SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ऽध्यायःभ्रूणहत्यायां प्रायश्चित्तान्तरकथनं कृच्छ्रविधिवर्णनच १५३१ एतेनैव गर्हिताध्यापकयाजका व्याख्याताः दक्षिणात्यागाच पूता भवन्तीति विज्ञायते ॥३० एतेनैवाभिशस्तो व्याख्यातः ॥३१ अथापरं भ्रूणहत्यायां द्वादशरात्रमब्यक्षो द्वादशरात्रमुपवसेत् ॥ ब्राह्मणमनृतेनाभिशं(शास्य पतनीयेनोपपतनीयेन वा मासमन्भक्षः शुद्धवतीरावर्तयेत् ॥३३ अश्वमेधावभृथे वा गच्छेत् ॥३४ एतेनैव चाण्डालीव्यवायो व्याख्यातः ॥३५ अथापरः कच्छ्रविधिः साधारणो व्यूढः॥३६ • अहः प्रातरहर्नक्तमहरेकमयाचितम् । अहः पराकं तत्रैकमेवं चतुरहौ परौ ॥३७ अनुग्रहार्थ विप्राणां मनुधर्मभृतां वरः। बालवृद्धातुरेष्वेवं शिशुकृच्छमुवाच ह ।।३८ अथ चान्द्रायणविधिः ॥३६ सासस्य कृष्णपक्षादौ ग्रासानद्याश्चतुर्दश। प्रासापचयभोजी स्यात्पक्षशेष समापयेत् ।।४० एवं हि शुक्लपक्षादौ प्रासमेकं तु भक्षयेत् । ग्रासोपचयभोजी स्यात्पक्षशेषं समापयेत् ॥४१ अत्रैव गायेत्सामानि अपि वा व्याहृतीजपेत् । एष चान्द्रायणो मासः पवित्रमृषिसंस्तुतः॥४२ अनादिष्टेषु सर्वेषु प्रायश्चित्तं विधीयते विधीयत इति ॥४३ इति वासिष्ठे धर्मशास्त्रे त्रयोविंशोऽध्यायः।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy