SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ अदण्ड्यदण्डने पुरोहितादेः प्रायश्चित्तम् । १५१६ ऽध्यायः ] व्यपदिष्टस्त्वकेषां दण्ड्योत्सर्गे राजैकरात्रमुपवसेत्त्रिरात्रं पुरोहितः ||२६ कृच्छ्रमदण्ड्य दण्डने पुरोहितत्रिरात्रं राजा ॥२७ अथात्युदाहरन्ति ||२८ अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्याऽपचारिणी । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्विषम् ||२६ राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ३० एनो राजानमृच्छति उत्सृजन्तं सकिल्बिषम् । तं चेद्धातयते राजा हन्ति धर्मेण दुष्कृतम्, इति ॥३१ राज्ञामत्यकेि कार्ये सद्यः शौचं विधीयते । तथाsनात्ययि नित्यं काल एवात्र कारणम्, इति ॥ ३२ यमगीतं चात्र श्लोकमुदाहरन्ति ॥ ३३ नात्र दोषोऽस्ति राज्ञां वै व्रती (ति) नां न च (मंत्रिणां ) सत्रिणाम् । ऐन्द्रस्थानमुपासीना ब्रह्मभूता हि ते सदा, इति ॥ ३४ इति वासिष्ठे धर्मशास्त्रे एकोनविंशोऽध्यायः ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy