________________
१५१६
वसिष्ठस्मृतिः। _ [अष्टादशो॥ अथाष्टादशोऽध्यायः ।।
चाण्डालादिजात्यन्तरनिरूपणम् । शूद्रण ब्रामण्यामुत्पन्नश्चण्डालो भवतीत्याहू राजन्यायां वैणो वैश्यायामन्त्यावसायी ॥१ वैश्येन ब्राह्मण्यामुत्पन्नो रामको भवतीत्याहुः, राजन्यायां पुल्कसः॥२ राजन्येन ब्राह्मण्यामुत्पन्नः सूतो भवतीत्याहुः॥३ अथाप्युदाहरन्ति ॥४ छिन्नोत्पन्नास्तु ये केचित्प्रातिलोम्यगुणाश्रिताः।
गुणाचारपरिभ्रंशात्कर्मभिस्तान्विजानीयुः, इति ॥५ एकान्तरद्व्यन्तरत्र्यन्तरानुजाता ब्राह्मणक्षत्रियवैश्यरम्बष्ठोपनिषादा भवन्ति ॥६ शूद्रायां पारशवः पारयन्नेव जीवन्नैव शवो भवतीत्याहुः ॥७ शव इति मृताख्या ॥८ . एके वै तच्छमशानं ये शूद्रास्तस्माच्छूद्रसमीपे नाध्येतव्यम् ॥६ अथापि यमगोताञ्छलोकानुदाहरन्ति ॥१० श्मशानमेतत्प्रत्यक्षं ये शूद्राः पापचारिणः । तस्माच्छूद्रसमीपे तु नाध्येतव्यं कदाचन ।।११ न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् । न चास्योपदिशेद्धर्म न चास्य व्रतमादिशेत् ।।१२ यश्चास्योपदिशेद्धमं यश्चास्य व्रतमादिशेत् । सोऽसंवृतं तमो घोरं सह तेन प्रपद्यते, इति ॥१३