SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] यविधर्मवर्णनम् । १४६१ संन्यसेत्सर्वकर्माणि वेदमेकं न संन्यसेत् । वेदसंन्यसनाच्छूद्रस्तस्माद्वदं न संन्यसेत् ।।५ एकाक्षरं परं ब्रह्म प्राणायामः परं तपः । उपवासात्परं भैक्षं दया दानाद्विशिष्यते ॥६ मुण्डोऽममोऽपरिग्रहः सप्तागाराण्यसंकल्पितानि चरेद्रेक्ष्यं (क्ष) विधूमे सन्न मुसले ॥७ एकशाटीपरिवृतोऽजिनेन वा गोप्रलूनस्तृणैर्वेष्टितशरीरः स्थण्डिलशाय्यनित्यां वसतिं वसेत् , प्रामान्ते देवगृहे शून्यागारे वृक्षमूले वा मनसा ज्ञानमधीयानः ।।८ अरण्यनित्यो न ग्राम्यपशूनां संदर्शने विहरेत् ॥ अथाप्युदाहरन्ति ॥१० अरण्यनित्यस्य जितेन्द्रियस्य सर्वेन्द्रियप्रीविनिवर्तकस्य । अष्मात्मचिन्तागतमानसस्य ध्रुवा बनावृत्तिरपेक्षकस्य इति ॥११ अव्यक्तलिङ्गो व्यक्ताचारः, अनुन्मत्त उन्मत्तवेषः ।।१२ अथाप्युदाहरन्ति ॥१३ न शब्दशास्त्राभिरतस्य मोक्षो न चापि लोकग्रहणे रतस्य। न भोजनाच्छादनतत्परस्य न चापि रम्यावसथप्रियस्य ॥१४ म चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया। अनुशासनवादाभ्यां मिक्षां लिप्सेत कर्हिचित् ॥१५ अलाभे न विषादी स्याल्लाभश्चैनं न हर्षयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥१६ .
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy