SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ अतिथिपूजनं,परानमोजनं,राजप्रशंसा,ब्राह्मणप्रशंसनवर्णनम् १४६७ दुर्बलानामनाथानां बालवृद्धतपस्विनाम् । अन्यायः परिभूतानां सर्वेषां पार्थिवो गतिः॥२५ राजा पिता च माता राजा च परमो गुरुः । राजा च सर्वभूतानां परित्राता गुरुर्मतः ॥२६ दावाग्निदवदग्धानां राजा पूर्णमिवाम्भसा ॥२७ पक्षिणां बलमाक शं मत्स्यानामुदकं बलम् । दुबलस्य बलं राजा बालस्य रुदितं बलम् ।।२८ बलं मूर्खस्य मौनत्वं तस्करस्यानृतं बलम् । एते राजबलाः सर्वे यज्ञेन परिरक्षिताः ॥२६ दहत्यग्निस्तेजसा च सूर्यो दहति रश्मिना । राजा दहति दण्डेन विप्रो दहति मन्युना ॥३० मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः। चक्रात्तीक्ष्णसरो मन्युस्तस्माद्विप्रान्न कोपयेत् ॥३१ अग्निदग्धं प्ररोहेत सूर्यदग्धं तथैव च । दण्ड्यातु संप्ररोहेत ब्रह्मशापहतो हतः॥३२ इति शङ्कलिखितस्मृतिधर्मशास्त्रं समाप्तम्। ॐतत्सत् ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy