________________
ऽध्यायः ] गायत्रीजपफलं, गायत्रीहोमादभीष्टसिद्धिवर्णनच १४३५
आदौ देवता ऋषिच्छन्दः स्मरेत् ॥७
ततः सप्रणत्रां सव्याहृतिकामादावन्ते च शिरसा गायत्रीमावर्तयेत् अथास्याः सविता देवता, ऋषिर्विश्वामित्रो गायत्री छन्दः ॥६ ॐकारः प्रणवाख्यः ॥ १०
ॐ भूः
1 ॐ भुवः । ॐ स्वः । ॐ महः । ॐ जनः । ॐ तपः । ॐ सत्यमिति व्याहृतयः ॥ ११ ओमापो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरोमिति शिरः ॥ १२ भवन्ति चात्र श्लोकाः ॥ १३
सव्याहृतिकां सप्रणवां गायत्रीं शिरसा सह । ये जपन्ति सदा तेषां न भयं विद्यते कचित् ॥१४ शतं जप्त्वा तु सा देवी दिनपापप्रणाशिनी । सहस्रं जप्त्वा तु तथा पातकेभ्यः समुद्धरेत् ॥१५ दशसहस्रं जप्त्वा तु सर्वकल्मषनाशिनी । सुवर्णस्तेयकृद्विप्रो ब्रह्महा गुरुतल्पगः ॥ १६ सुरापश्च विशुध्येत लक्षजाप्यान्न संशयः । प्राणायामत्रयं कृत्वा स्नानकाले समाहितः ॥ १७ अहोरात्र कृतात्पापात्तत्क्षणादेव मुच्यते । सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश ॥१८ अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः । हुता देवी विशेषेण सर्वकामप्रदायिनी ॥ १६ सर्वपापक्षयकरी वरदा भक्तवत्सला । शान्तिकामस्तु जुहुयात्सावित्रीमक्षतैः शुचिः ॥२०