________________
[दशमो
१४३२
शकस्मृतिः। हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । तालुगाभिस्तथा वैश्यः शूद्रः स्पृष्टाभिरन्ततः॥४ अन्तजार्नुः शुचौ देशे प्रामुखः सुसमाहितः। उदः मुखो वा प्रयतो दिशश्चानवलोकयम् ॥५ अद्भिः समुद्धृताभिस्तु हीनाभिः फेनबुबुदैः । बहिना चाप्यतमाभिरक्षाराभिरुपस्पृशेत् ॥६ तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापुटद्वयम् । अङ्गुष्ठमण्यायोगेन स्पृशेन्नत्रद्वयं ततः ।।७ अङ्गुष्ठानामिकाभ्यां तु श्रवणौ समुपस्पृशेत् । कनिष्ठाङ्गुष्ठयोगेन स्पृशंस्कन्धद्वयं ततः॥८ सर्वासामेव योगेन नाभिं च हृदयं तथा । संस्पृशेश्च तथा मूर्ध्नि एष आचमने विधिः ॥ त्रिःप्राश्नीयाघदम्भस्तु प्रीतास्तेनास्य देवताः । ब्रह्मा विष्णुश्च रुद्रश्च भवन्तीत्यनुशुश्रुम ॥१० गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् । नासत्यदस्रो प्रीयेते स्पृटे नासापुटद्वये ॥११ स्कृष्ट लोचनयुग्मे तु प्रीयेते शशिभास्करौ। . कर्णयुग्मे तथा स्पृष्ट प्रीयेते अनिलानलौ ॥१२ स्कन्धयाः स्पर्शनादश्य प्रीयन्ते सर्वदेवताः । मूर्ध्नः संस्पर्शनादस्य प्रीतस्तु पुरुषो भवेत् ॥१३ विना यज्ञोपवीतेन तथा मुक्तशिखो द्विजः। अप्रक्षालितपादस्तु आचान्तोऽप्यशुचिर्भवेत् ॥१४