SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ १३७६ कात्यायनस्मृतिः। [पञ्चविंशः : एकाहेन तु षण्मासा यदा स्यु रपि वा त्रिभिः । न्यूनाः संवत्सराश्चैव स्यातां पाण्मासिके तथा यानि पञ्चदशाद्यानि अपुत्रस्येतराणि तु । एकस्मिन्नहि देयानि सपुत्रस्यैव सर्वदा ॥१० । न योषायाः पतिर्दद्यादपुत्राया अपि कचित् । न पुत्रस्य पिता दद्यान्नानुजस्य तथाग्रजः॥११ एकादशेऽहि निर्वयं अर्वाग्दर्शाद् यथाविधि । प्रकुर्वीताग्निमान् पुत्रो मातापित्रोः सपिण्डताम् ।।१२ सपिण्डीकरणावं में दद्यात् प्रतिमासिकम् । एकोदिष्टेन विधिना दद्यादित्याह गौतमः ॥१३. कसमन्वितं मुक्ता तथाधं श्राद्धषोड़शम् । प्रत्यादिकञ्च शेषेषु पिण्डाः स्युः षडिति स्थितिः॥१४ अर्धेऽक्षय्योदके चैव पिण्डदानेऽवनेजने। तन्त्रस्य तु निवृत्तिः स्यात् स्वधावाचन एव च ॥१५ ब्रह्मदण्डादियुक्तानां येषां नास्त्यग्निसक्रिया। श्राद्धादिसत्क्रियाभाजो न भवन्तीह ते क्वचित् ॥१६ ____ इति चतुर्विशः खण्डः । ॥पञ्चविंशः खण्डः ।। नवयशेनविना नवान्नभोजने प्रायश्चित्तवर्णनम् । मन्त्राम्नायेऽग्न इत्येतत् पञ्चकं लाघवार्थिभिः। पठ्यते तत्प्रयोगे स्यान्मन्त्राणामेव विंशतिः ॥१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy