SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अण्डः ] .... सन्ध्याकालाधुद्दिश्यकर्मवर्णनम् । १३४६ न कुर्य्यात् क्षिप्रहोमेषु द्विजः परिसमूहनम् । विरुपाक्षञ्च न जपेत् प्रवदञ्च विवर्जयेत् ।।५ पर्युक्षणञ्च सर्वत्र कर्त्तव्यमदितेन्विति । अन्ते च वामदेवस्य गानं कुर्य्याहचत्रिधा ॥६ अहोमकेष्वपि भवेद् यथोक्तं चन्द्रदर्शनम् । वामदेव्यं गणेष्यन्ते कल्पान्ते वैश्वदेविके । यान्यधस्तरणान्तानि न तेषु स्तरणं भवेत् । एककाऱ्यार्थसाध्यत्वात् परिधीनपि वर्जयेत् ॥८ वर्हिः पर्युक्षणं चैव वामदेव्यजपस्तथा । क्रत्वाहुतिषु सर्वासु त्रिकमेतन्न विद्यते ॥ .. हविष्येषु यवामुख्यास्तदनु ब्रीहयः स्मृताः । माषकोद्रवगौरादिसर्वालाभेऽपि वर्जयेत् ॥१० पाण्याहृतिर्द्वादशपर्वपारिका कंसादिना चेत् सुवमात्रपावका । देवेन तीर्थेन च हूयते हविः स्वङ्गारिणि स्वर्धिषि तश्च पावके ॥११ योऽनर्चिषि जुहोत्यमौ व्यङ्गारिणि च मानवः । मन्दाग्निरामयावी च दरिद्रश्च स जायते ॥१२ तस्मात् समिद्ध होतव्यं नासमिद्ध कदाचन । आरोग्यमिच्छतायुश्च श्रियमात्यन्तिकीम्पराम् ॥१३ होतव्ये च हुतं चैव पाणिसूर्पस्फ्यदारुभिः । न कुर्य्यादमिधमनं कुर्य्याद्वा व्यजनादिना ॥१४ मुखेनेके धमन्त्यमिं मुखाद्ध्येषोऽध्यजायत । नामिं मुखैनेति च यल्लौकिके योजयन्ति तत् ॥१५ इति नवमः खण्डः ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy