________________
ऽध्यायः] व्यवहाराध्यायः स्त्रीसंग्रहणप्रकरणवर्णनम्। १३०१
सकामास्वनुलोमासु न दोषस्त्वन्यथा (धमः)दमः । दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥२६१ शतं स्त्री दूषणे दद्याद् द्वे तु मिथ्याभिशंसने । पशून् गच्छन् शतं दाप्यो हीनां स्त्री गाश्च मध्यमम् ।।२६२ अवरुद्धासु दासीषु भुजिष्यासु तथैव च। गम्यास्वपि पुमान् दाण्यः पञ्चाशत् पणिकं दमम् ।।२६३ प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः। बहूनां यद्यकामासौ चतुर्विशतिकः पृथक् ॥२६४ गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् । अगृहीते समं दाप्यः पुमानप्येवमेव च ॥२६५ अयोनौ गच्छतो योषां पुरुषं वाऽपि मोहतः । चतुर्विशतिको दप्डस्तथा प्रवजितागमे ॥२६६ अन्त्याभिगमने त्वक्यः कुक)बन्धेन प्रवासयेत् । शूद्रस्तथान्य एव स्यादन्त्यस्यार्थ्यागमे वधः।।२६७
इति स्त्रीसंग्रहप्रकरणवर्णनम् ।
अथ प्रकीर्णकप्रकरणवर्णनम् । . ऊनं वाप्यधिकं वाऽपि लिखेद् यो राजशासनम् । पारदारिकचोरौ वा मुञ्चतो दण्ड उत्तमः ।।२६८