SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १२५४ याज्ञवल्क्यस्मृतिः। [प्रथमोहेमशृङ्गी शफैरौप्यैः सुशीला वस्त्रसंयुता । सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥२०४ दातास्याः स्वर्गमाप्नोति वत्सराल्लो मसम्मितान् । कपिला चेत्तारयति भूयश्चा सप्तमं कुलम् ।।२०५ स वत्सरोमतुल्यानि युगान्युभयतोमुखीम् । दातास्याः स्वर्गमाप्नोति पूर्णेन विधिना ददत् ॥२०६ यावद्वत्सस्य पादौ द्वौ मुखं योनौ च दृश्यते । तावद् गौः पृथिवी ज्ञेया यावद् गर्भ न मुञ्चति ।।२०७ यथा कथञ्चिद्दत्त्वा गां धेनुं वाऽधेनुमेव वा। अरोगामपरिक्लिष्ठां दाता स्वर्गे महीयते ॥२०८ श्रान्तसम्वाहनं रोगि परिचर्या सुरार्चनम् । पादशौचं द्विजोच्छिष्टमार्जनं गोप्रदानवत् ॥२०॥ भूदीपाश्वान्न वस्त्राम्भस्तिलसर्पिः प्रतिश्रयान् । नैवेशिकं स्वर्णधुय्यं दत्त्वा स्वर्गे महीयते ॥२१० गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् । यानं वृक्षं प्रियं (जल) शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥२११ सर्वदानमयं ब्रह्म प्रदानेभ्योऽधिकं यतः । वहदत् समवाप्नोति ब्रह्मलोकमविच्युतम् ।।२१२ प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् । ये लोका दानशीलानां स तानाप्नोति पुष्कलान् ।।२१२ कुशाः शाकं पयो मत्स्यागन्धाः पुष्पं दधि क्षितिः। मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥२१४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy