SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] वैष्णवधर्मनिरूपणम् । पूजाविधानं त्रिविधं तस्मै होमान्तमाविशेत् । स्नानतर्पणहोमार्चा जप्याद्या विविधाः क्रियाः॥२५८ वैशिष्येण गुरोत्त्विा शक्त्या सर्व समाचरेत् । परमापद्गतो वाऽपि न भुञ्जीत हरेदिते ॥२५६ न तिर्यग्धारयेत्पुण्ड्रन्नान्यं देवं प्रपूजयेत् । वैष्णवः पुरुषो य तु शिव ब्रह्मादिदेवतान् ॥२६० प्रणमेतार्चयेद्वाऽपि विष्ठायां जायते क्रिमिः । रजस्तमोऽभिभूतानां देवतानां निरीक्षणात् ॥२६१ पूजनाद्वन्दनाद्वाऽपि वैष्णवो यात्यधोगतिम् । शुद्धसत्वमयो विष्णुः पूजनीयो जगत्पतिः ।।२६२ अनर्चनीया रुद्राद्याः विष्णोरावरणं विना । यस्तु स्वात्मेश्वरं विष्णुमतीत्यान्यं यजेत हि ॥२६३ स्वात्मेश्वराय हरये च्यवते नात्रसंशयः । यज्ञाध्ययनकाले तु नमस्यानि वषट्कृता ।।२६४ तानि वै यज्ञियान्यत्र यज्ञो वै विष्णुरव्ययः। तस्यैवाऽवरणं प्रोक्तं यज्ञाध्ययनकर्मसु ॥२६५ स्तुवन्ति वेदास्तस्यात्र गुणरूपविभूतयः। तस्मादावरणं हित्वा ये यजन्ति परान् सुरान् ॥२६६ ते यान्ति निरयं घोरं कल्पकोटिशतानि वै। रुद्रः काली गणेशश्च कूष्माण्डा भैरवादयः ॥२६७ मद्यमांसाशिनश्चान्ये तामसाः परिकीर्तिताः । शुद्धानामपि देवानां या स्वतन्त्राऽचनक्रिया ॥२६८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy