________________
ऽध्यायः ]
नानाविधोत्सवविधानवर्णनम् ।
११८६
अर्चयेज्जगतामीशं सर्वाभरणसंयुतम् ।
ततो भागवतान् सर्वानर्चयेत्परितो द्विजः ॥ २०६ पुष्पैर्वा तुलसीपत्रैः सलिलै रक्षतैरपि । प्रह्लादं नारदचैव पुण्डरीकं विभीषणम् || २०७ रुक्माङ्गदं तत्सुतथ्य हनूमन्तं शिवं भृगुम् । वशि (सिष्ठ' वामदेवच्च व्यासं शौनकमेव च ॥२०८ मार्कण्डेयं चाम्बरीषं दत्तात्रेयं पराशरम् । रुक्मदाभ्यौ कश्यपञ्च हारीतभ्वात्रिमेव च ॥ २०६ भरद्वाजं बलिं भीष्म मुद्धवाक्ररपुष्करान् । गुहं सूतश्च वाल्मीकं स्वायम्भुवमनुं ध्रुवम् ॥२१० वेण रोमशञ्चैव मातंगं शबरीं तथा ।
सनन्दनञ्च सनकं विघनश्च सनातनम् ॥ २११ वोटुं (ढुं पञ्चशिखञ्चैव गजेन्द्रश्च जटायुषम् । सुशीला त्रिजटां गौरीं शुभां सन्ध्यावलिं तथा ॥ २१२ अनसूर्या द्रौपदीच्च यशोदां देवकीं तथा । सुभद्राञ्चैव गोपीश्च शुभा नन्दजे स्थिताः ।।२१३ नन्दं च वसुदेवञ्च दिलीपं दशरथं तथा । कौसल्याञ्चैव जनककन्यामपि च वैष्णवान् ॥ २१४ अर्चयेद्गन्धपुष्पाद्यैर्धपैदीपैर्निवेदनैः । ताम्बूलैर्भक्ष्यभोज्यैश्च दीपैर्नीराजनैरपि ॥ २१५ अहं भुवेति सूक्तेन दद्यान्नीराजनं हरेः । पश्चाद्धोमं प्रकुर्वीत अग्न्याधानादिपूर्ववत् ॥ २१६