SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] महापातकादिप्रायश्चित्तवर्णनम् । ११४६ प्रयागे सेतुबन्धादिपुण्यक्षेत्रेषु पापकृत् । तत्र वर्षादि विज्ञाप्य स्वस्वकल्पमशेषतः ।।२२६ तत्रस्थैर्ब्राह्मणैरेवानुज्ञातो व्रतमाचरेत् । चत्वारो ब्राह्मणाः शिष्टाः पर्षदित्यभिधीयते ।।२२७ से रुक्तमाचरेद्धर्ममेको वाऽध्यात्मवित्तमः । जटी वल्कलवासाश्च बहिरेव समाविशन् ।।२२८ स्नानं त्रिषवणं कुर्वन् क्षितिशायी जितेन्द्रियः । एकभुक्तेन नक्तेन फलैरनशनेन च ।।२२६ समापयेत्कर्मफलं यथाकालं यथाबलम् । राममिन्दीवरश्याम पौलस्त्यघ्नमकल्मषम् ।।२३० ध्यात्वा षडक्षरं मन्त्रं नित्यं तावदहनिशम् । एवं द्वादशवर्षाणि पुण्यतीर्थे समाचरन् ।।२३१ मुच्यते ब्रह्महत्याया स्तपसा वीतकल्मषः । चरितव्रत आयाते यवसं गोषु दापयेत् ।।२३२ तै स्तस्य च सुसंस्काराः कर्तव्या बान्धवैर्जनैः । विप्रमुख्याय गां दत्वा ब्राह्मणान् भोजयेत्ततः ।।२३३ प्रारम्भवतमध्ये तु यदि पञ्चत्वमाप्नुयात् । विशुद्धिस्तस्य विज्ञेया शुभाङ्गतिमवाप्नुयात् ।।२३४ असंस्कृतस्तु गोषु स्यात् पुनरेव व्रतं चरेत् । अशक्तस्तु वते दद्याद् गोसहस्रं द्विजन्मनाम् ॥२३५ पात्रे धनं वा पर्याप्त दत्त्वा शुद्धिमवाप्नुयात् । ब्रह्महत्यासमेष्वेवं कामतो वतमाचरेत् ।।२३६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy