SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] वैष्णेष्टिक्रियातः श्राद्धपर्यन्त विधिवर्णनम् । आस्तीर्य दक्षिणामेवमेणाजिन मनुत्तमम् । तस्मिन्नास्तीय् दर्भस्तु विकीर्य च तिलांस्तथा ॥६८ तस्मिन्निवेश्य तं देवं (प्रेतं) घृताक्त नववस्त्रकम् । ईपद्धतं नवं श्वेतं सदशं यन्न धारितम् ॥ ६६ अहतं तद्विजानीयाद्देवे पित्र्ये च कर्मणि । परिषिव्य चितिं पश्चादापोऽप्यस्मानितीत्यृचा || १०० परिस्तीर्य शुभैद भैरपसव्येन सव्यतः । उरस्यग्निं निधायास्य पात्रासादानमाचरेत् ॥ १०१ प्रोक्षणं चमसाज्येन चरुमिथ्मस्रुवौ तथा । आसाद्योक्तविधानेन इध्माधानान्तमाचरेत् ॥ १०२ स्वगृह्येोक्तविधानेन हुत्वा सर्वमशेषतः । पश्चादाज्ययुतं त्र्यं जुहुयादुपवीतवान् ॥१०३ सोमानमित्योदनेन प्रत्यचं तत आज्यतः । तं महेन्द्रेति सूक्तेन हुत्वा प्रत्यृचमेव च ॥ १०४ एष इत्यनुवाकाभ्यां पृदाज्य यजेत्ततः । सर्वैश्च वैष्णवैर्मन्त्रैः पृथगष्टोत्तरं शतम् ॥१०५ तिलैश्च जुहुयात्पादमष्टाविंशतिमेव वा । एका माहुति पश्चाद्वैकुण्ठपार्षदं यजेत् ॥ १०६ ब्रह्ममेध इति प्रोक्तं मुनिभिर्ब्रह्मतत्परैः । महाभागवतानां वै कर्तव्यमिदमुत्तमम् ॥ १०७ केशवार्पित सर्वाङ्गं शशिभं मङ्गलाद्वयम् । न वृथा दापयेद्विद्वान् ब्रह्ममेधविधिं विना ॥ १०८ ७२ ११३७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy