________________
१११०
वृद्धहारीतस्मृतिः ।
वैष्णवैरनुवाकैश्व दत्त्वा पुष्पाञ्जलिं ततः । पुरतो वासुदेवस्य भूमौ स्वप्यात्कुशोत्तरे ||३७६ एवं संपूज्य देवेशं मघायां वैष्णवेोत्तमः । उद्धृत्य वंशजान् सर्वान् वैष्णवं पदमाप्नुयात् ॥ ३८० व्यतीपाते तु संप्राप्ते हयग्रीवं जनार्दनम् । पुष्पैश्च करवीरैश्च पुण्डरीकैः समर्चयेत् ॥ ३८१ योरयीत्यनुत्राकेन प्रत्यृचं वै यजेद्बुधः । मन्त्रेण च शतं दत्त्वा पश्चाद्धोमं समाचरेत् ॥ ३८२. यवैश्च तण्डुलैर्वाऽपि तिलैः पुष्पैरमापि वा । मन्त्रेणाष्टोत्तशरतं जुहुयाद्वैष्णवोत्तमः ॥ ३८३ अभूदेकाद्यष्टसूक्तैः प्रत्यचं जुहुयाच्चरुम् । शेषं निवेद्य हरये संप्राश्याऽऽचमनं चरेत् ॥ ३८४ सहस्रशीर्षसूक्तेन उपस्थाय जनार्दनम् । शाल्योदनं सूपयुतं विविधैश्च फलैरपि ॥ ३८५ गवाज्येन युतं दत्त्वा दीपैर्नीींराजयेत्ततः ।। ३८६ ब्राह्मणान् भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत् । हविष्यन्तु स्वयं भुक्त्वा भूमौ स्वप्याज्जितेन्द्रियः ।। ३८७ एवं संपूज्य देवेशं व्यतीपाते सनातनम् । दशवर्षसहस्रस्य पूजायाः फलनाप्नुयात् ॥ ३८८ ग्रहणे रविसंक्रान्तौ वराहवषुषं हरिम् । कुमुदैरुज्वलैः पद्मैस्तुलसीभिः कुन्दकैः ।। ३८६
[ पञ्चमो