SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ध्यायः ] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । ११०१ अमृतापिधानमसीतिमन्त्रोण कुशपाणिना। किञ्चिदन्नमुपादाय पीतशेषेण बारिणा ।।२८१ पैतृकेण तु तीर्थेन भूमौ दद्यात्तदर्थिनाम् । रौरवे नरके घोरे वसतां क्षुत्पिपासया ॥२८२ तेषामन्नं सोदकञ्च अक्षय्यमुपतिष्ठतु । इति दत्त्वोदकं तेषां तस्मिन्नेवाऽऽसने स्थितः ।।२८३ प्रक्ष्याल्य हस्तौ पादौ च वां संशोध्य वारिभिः । द्विराचम्य विधानेन मन्त्रोण प्राशयेजलम् ।।२८४ पीत्वा मन्त्रजलं पश्चादाचम्य हृदयाम्बुजे । राममिन्दीवरश्यामं चक्रशङ्खधनुर्धरम् ।।२८५ युवानं पुण्डरीकाक्षं ध्यात्वा मन्त्रां जपेद्बुधः । समासीनः सुखासने वेदमध्यापयेत्ततः। सच्छिष्यान् यांस्तु शास्त्रं वा स्नेहाद्वा धर्मसंहिताम् ॥२८६ इतिहासपुराणं वा कथयेच्छृणुयाञ्च वा । रवावस्तङ्गते सन्ध्यां वहिः कुर्वीत पूर्ववत् ।।२८७ वहिः सन्ध्या शतगुणं गोष्ठे शतगुणं तथा । गङ्गाजले सहस्रं स्यादनन्तं विष्णुसन्निधौ ॥२८८ उपास्य पश्चिमा सन्ध्यां जप्त्वा जप्यं समाहितः । पूर्ववत् पूजयेद्विष्णुं गन्धपुष्पाक्षतादिभिः ॥२८६ अष्टाक्षरविधानेन निवेश्यैवं समाहितः। सायमौपासनं हुत्वा वैष्णवं होममाचरेत् ।।२६०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy