SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ १०६६ वृद्धहारीतस्मृतिः। [पञ्चमोमुखं हि सर्वदेवानां महाभागवतोत्तमः। तस्मिन् सम्पूजिते विप्रे पूजितं स्याजगत्त्रयम् ॥२२६ अर्थपञ्चकतत्वज्ञः पञ्चसंस्कारसंस्कृतः। नवभक्तिसमायुक्तो महाभागवतः स्मृतः ।।२२७ काले समागते तस्मिन् पूजिते मधुसूदनः । क्षणादेव प्रसन्नः स्यादीप्सितानि प्रयच्छति ।।२२८ महाभागवतानाच पिबेत्पादोदकं तु यः । शिरसा बा श्रयेद्भत्या सर्वपापैः प्रमुच्यते ॥२२६ यस्मिन् कस्मिन् हि वसति महाभागवतोत्तमे। अप्येकरात्रमथवा तद्देशस्तीर्थसम्मितः ॥२३० भोजयित्वा महाभागाम् वैष्णवानतिथीनपि । ततो बालसुहृवृद्धान् बान्धवांश्च समागतान् ।।२३१ भोजयित्वा यथा शक्या यथाकालं जितक्षुधः। भिक्षां दद्यात् प्रयत्नेन यतीनां ब्रह्मचारिणाम् ॥२३२ शूद्रो वा प्रतिलोमो वा पथि श्रान्तः क्षुधातुरः। भोजयेत्तं प्रयलेन गृहमभ्यागतो यदि ॥२३३ पाषण्डः पतितो वाऽपि क्षुधातॊ गृहमागतः। नैव दद्यात् स्वपक्काममाममेव प्रदापयेत् ॥२३४ स्वशक्त्या तर्पयित्वैवमतिथीनागतान् गृहे। सम्यनिवेदितं विष्णोः स्वयं भुञ्जीत वाग्यतः ।।२३५ प्रक्षाल्य पादौ हरतौ च सम्यगाचम्य वारिणा । विष्णोरभिमुखं पीठे हेमदिग्घे कुशोत्तरे ॥२३६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy